________________
संप्रतिनृपतिचरित्रम् ॥
क्षमाधनैः ॥२५५॥ इत्युक्त्वा गुरुमानम्य, चाणिक्यो जग्मिवान् गृहम् । क्षुल्लकावपि तद्नेहे-ऽन्नाद्यं जगृहतुः सुखम् ॥२५६॥ • ज्ञात्वाऽन्येधुश्चन्द्रगुप्तं, मिथ्यादृष्टिप्रतारितम् । स्वपितेव प्रियाकर्तु-मन्वशात्तं चणीप्रसूः ॥२५७।। अमी पाखण्डिनो वत्स ! जीविका) धृतव्रताः । दुःशीला नि:कृपा: पापा, नामाऽप्येषां न गृह्यते ॥२५८॥ छायाऽप्येषां परित्याज्या, बिभीतकतरोरिव । एतत्पूजादिवार्ता तु, श्रुत्योस्तप्तत्रपूयते ॥२५९॥ कषायविषयाराति-राजधानीष्वधर्मिषु । भस्मनीव हुतं वत्स, दानमेतेषु जायते ॥२६०॥ एते स्वं च स्वभक्तं च, मूर्खनिर्यामका इव । पातयन्ति भवाम्भोधौ, तदेतांस्त्यज पापवत् ।।२६१|| तच्छ्रुत्वा स्माह मौर्योऽपि, वन्दीर्मे मस्तकोपरि । परमीदृक्रियैषां व-स्ततोऽध्यक्षाऽथवा श्रुता ।।२६२॥ चाणिक्य: स्माह दुर्वृत्त-मेषां मे सर्वदा स्फुटम् । त्वामपि ज्ञापयिष्यामि, प्रत्यक्षीकृत्य तत्तथा ॥२६३।। आजूहवदथाऽन्येद्यु-मन्त्री पाखण्डिनोऽखिलान् । आत्मीयात्मीयधर्मस्य, कथनाय नृपाग्रतः ॥२६४॥ विजनेऽन्त:पुरासन्ने, स्थानेऽध्यासयति स्म तान् । तत्र चाऽक्षेपयल्लोष्ट-चूर्णं प्राक् सुसमं सुधीः ॥२६५॥ यावद्राजागमं ते च, सर्वेऽप्यविजितेन्द्रियाः। उत्थाय जालिकद्वारै-रेक्षन्त नृपवल्लभाः ॥२६६॥ दृष्ट्वा च नृपमायान्तं, धृत्वा मुद्रामुपाविशन् । स्वं स्वं धर्ममथाख्याय, राज्ञो जग्मुर्यथागतम् ॥२६७॥ चाणिक्योऽथ नरेन्द्रस्य, लोष्टचूर्णोपरि प्रधीः । तत्पादप्रतिबिम्बानि, तत्र तत्र प्रदर्शयन् ॥२६८॥ उवाच पश्य स्त्रीलोला, एते यावत्त्वदागमम् । अन्त:पुरं तवैक्षन्त, स्थित्वा, स्थित्वोपजालिकम् ॥२६९।। चन्द्रगुप्तोऽपि तदृष्ट्वा, तेषां दौःशील्यचेष्टितम् । विरक्तिमगमत् सद्यः, सत्यलीकाङ्गनास्विव ॥२७०॥ लोष्टचूर्णं समीकृत्य, तत्तत्रैव सिताम्बरान् । अध्यासयद् द्वितीयेऽह्नि, तथैवाऽऽहूय धीसखः ॥२७१॥ ध्यानमौनपरास्तेपि, मुनीन्द्रा: स्वीयमुद्रया । जितेन्द्रियतया तस्थुः, स्थानस्था एव बिम्बवत् ॥२७२॥ आगतस्य