________________
च भूभर्तु-र्धर्ममाख्याय तेऽप्यगुः । ईर्यासमितिसंलीनाः, साम्यवासितचेतसः ॥ २७३॥ चाणिक्योऽथाऽब्रवीच्चन्द्रगुप्तं पश्य महीपते ! । पदान्येषां मुनीन्द्राणां दृश्यन्ते नात्र कुत्रचित् ॥ २७४॥ नामी प्रेक्षन्ते ते स्त्रैण मत्रागत्य जितेन्द्रियाः । स्त्रैणे हि तृणधीरेषां, सिद्धिश्रीसङ्गमार्थिनाम् ॥२७५॥ सुसाधुषु दृढा भक्ति - श्चन्द्रगुप्तस्ततः परम् । दृष्टशुद्धसमाचारः, संजज्ञे परमार्हतः ॥ २७६ ॥ चाणिक्योऽन्येद्युरादध्यौ, कश्चित्तौ क्षुल्लकाविव । यद्यदृश्यो विषं राज्ञे दद्यात् तत् स्यान्न शोभनम् ॥ २७७॥ विमृश्येति स राजानं, विषमिश्रितमोदनम् । सहमानं सहमानं, भोजयामास नित्यशः ॥२७८॥ राज्ञश्चाऽस्ति महादेवी, धारिणी गर्भधारिणी । तस्याः समं नृपेणैक स्थोऽभूद् भुक्तिदोहदः ॥२७९॥ साऽथाऽभूत्तदसंपतौ, चन्द्रलेखेव दुर्बला । विलोक्य तादृशीं तां च, पृच्छति स्म महीपतिः ||२८०॥ किं ते न पूर्यते किञ्चित्, किं वाऽऽज्ञां कोऽप्यखण्डयत् । किं केनाऽप्यभिभूता वा, यदेवं देवि ! दुर्बला ॥२८१॥ साऽवादीन्नैककोऽप्येषां, हेतुः कोऽप्यस्ति किं पुनः । त्वया सहैकस्थाले मे, भोक्तुं देवाऽस्ति दोहदः ॥ २८२॥ राज्ञोचे देवि । विश्वस्ता, भव श्वः पूरयिष्यते । सह भोक्तुं द्वितीयेऽह्नि, तामथाजूहवन्नृपः ॥२८३॥ चाणिक्यः स्माह मा दास्त्वं, वत्स राज्यै स्वभौजनम् । यतस्तवाऽयमाहारः, सर्वोऽस्ति विषभावितः ॥२८४॥ ततो दिने दिनेऽप्यस्यां मार्गयन्त्यां नृपोऽन्यदा । अनागच्छति चाणिक्ये, ददौ कवलमेककम् ॥ २८५॥ तं यावदत्ति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च स्वादयन्तीं ता-माः किं चक्रे स्ववैरिणी ॥ २८६॥ सर्वनाशे समुत्पन्ने, ह्यर्द्धं त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यौ, जीवयाम्यहमेककम् ॥२८७॥ जल्पन्नित्युदरं तस्या, विदार्य क्षुरिकाकरः । रोहणोर्व्या रत्नमिव, पुत्ररत्नं तदाऽकृषत्
॥ १० ॥