SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ संप्रतिनृपतिचरित्रम् ॥ ॥२८८॥ कृत्वा घृतादिमध्ये तं दिनान्यूनान्यपूरयत् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् ॥२८९॥ तमश्नन्त्याश्च मातुस्त-द्विन्दुर्मूर्म्यपतच्छिशोः। नोदगुस्तत्प्रदेशेऽथ, केशाः शस्यमिवोषरे ॥ २९०॥ अत एवाभिधां तस्य, बिन्दुसार इति व्यधुः । वर्द्धमानोऽथ सोऽधीयान् (?), शशीवाऽभूत् कलामयः ॥ २९९ ॥ अन्यदोपरते राज्ञि बिन्दुसारोऽभवन्नृप । ववृधेऽथ प्रतापेन, निदाघाऽर्क इवानिशम् ॥२९२॥ शिष्यमाणो मुहुः सोऽपि धात्र्या मात्रेव नित्यशः । आराधयति चाणिक्यं, चन्द्रगुप्त इवापरः ॥२९३॥ सुबन्धुनान्यदैकान्ते, राजोचे नन्दमन्त्रिणा । अस्थापितोऽपि मन्त्रित्वे, देव ! किञ्चित् करोम्यहम् ||२९४|| यद्यप्यस्मद्गिरः स्वामि- न्नार्घंत्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिह्वा कण्डूयते मम ॥ २९५॥ य एष देव ! चाणिक्यो, मन्त्रीशोऽस्त्यतिदारुणः । विंदार्योदरमेतेन, भवन्माताऽप्यमार्यत ॥२९६॥ ततः स्वात्माऽपि यत्नेन, रक्षणीयस्त्वया नृप ! । सोऽथ पप्रच्छ तद्धात्रीं, साऽप्यवादीदभूदिदम् ||२९७|| ततः क्रुद्धः स चाणिक्ये-न प्रायासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः ॥२९८॥ अलं प्रत्याय्य पृथुकं, किमारब्धेन मेऽधुना । अवश्यमेव मर्त्तव्ये, मर्त्तव्यं किमशम्बलैः ॥ २९९ ॥ इति ध्यात्वा परित्यज्य, राज्यकाङ्क्षां निजं धनम् । चाणिक्येनौप्यताशेषं, सप्तक्षेत्र्यां सुबीजवत् ॥३००॥ अथेष्टस्वजनादीना मौचित्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्त्वानुकम्पया ॥३०१ ॥ विचार्य वर्यया बुद्ध्या, प्रतिकारक्षमं रिपोः । पत्रकं गन्धचूर्णं च, मध्यान्मध्ये निधाय च ॥ ३०२ ॥ गत्वा बहिः करीषान्तः, संस्थानस्थण्डिलेन वा । विधायानशनं १ बालं ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy