________________
सुगन्धाङ्गो, होला वादयतात्र मे ॥२१०॥ एवं विज्ञाय तद्भावं, ते चाणिक्येन निर्मदाः | आढ्या धनममाय॑न्त, यथौचित्येन 1. धीमता ॥२११। एकयोजनगामीभ-पदमित्याऽर्थलक्षकाः । तथैकतिलजतिल-मितान् शतसहस्रकान् ॥२१२॥ एकाहस्रक्षणाज्यं ।
चै-कहाश्वान्मासि मासि च । कोष्ठागारभृतः शालीं-श्चाणिक्याय ददुश्च ते ॥२१३॥ एवं संपूर्य कोशौघान्, कोष्ठागाराणि निर्वृतः । चाणिक्यः कृतकर्त्तव्यो, राज्यं राजेव शा स्ति सः ॥२१४॥ हारेणेव विहारेण, स्फुरन्मुक्तानुषङ्गिणा । तत्र प्रसाधयन्तः क्ष्मा-मीयुर्विजयसूरयः ॥२१५॥ क्षीणजङ्घाबलास्ते च, वृद्धावासं चिकीर्षवः । ज्ञात्वा च भाविदुर्भिक्षं, शैक्षमात्मपदे व्यधुः ॥२१६॥ विद्याद्यतिशयास्तस्य, रहस्याख्यन्निधीनिव । गच्छं समर्प्य प्राहेषुः, सुभिक्षभृति, 'नीवति ॥२१७|| गुरुस्नेहानुरागेण, कृत्वा तदृष्टिवञ्चनम् क्षुल्लकद्वितयं त्वागा-निर्वृत्त्य गुरुसन्निधौ ॥२१८॥ गुरुणाऽभिहितौ वत्सौ ! युक्तं नैतदनुष्ठितम् । पतिष्यत्यत्र है। दुष्कालः, कराल: कालसोदरः ॥२१९॥ ऊचे ताभ्यां न नौ तत्र, प्रतिभाति प्रभून् विना । तदत्रावां सहिष्याव:, सर्व पूज्याऽन्तिके स्थितौ ॥२२०॥ एवं च सति तत्रागाद्, दुर्भिक्षं द्वादशाब्दकम् । कृतान्तस्य कृतोत्साहं, दानधर्मस्य मान्द्यकृत् ॥८॥ ॥२२१॥ यत्रान्नमुदरे रत्न-निधायं विनिधीयते । सर्वैः परस्परं लोकै-नित्यं कस्याप्यपश्यतः ॥२२२॥ तदा दुर्भिक्षराजेन, वाञ्छतैकातपत्रताम् । रङ्कराजा न्ययोज्यन्त, निजमाण्डलिका इव ॥२२३॥ उत्तिष्ठन्त्युपविष्टाश्च, न भिक्षाका गृहे गृहे ॥ दुःकालक्षितिपालस्य, भट्टपुत्रा इवोत्कटा: ॥२२४|| एवंविधे च काले यल्लभन्ते शुक्लवासाः १. करोति । २. अलंकुर्वन्त । ३. देशे ।