________________
संप्रतिनृपतिचरित्रम् ॥
स्वनरं रन्तुमासयत् ॥१९६॥ सोऽवदद्येन जीयेऽहं, रत्नस्थालस्य स प्रभुः । दद्यादेकं स दीनारं, यः पुनर्जीयते मया ॥ १९७॥ रमन्ते " बहवस्तेन, सार्द्धं लोभेन किं पुनः । जीयते न स केनापि, स्ववशंवदपाशकः ॥१९८॥ चाणिक्येनाथ विज्ञाय, कोशपूर्त्तिश्चिरादितः । उपायान्तरमासूत्रि, शीघ्रं कोशप्रदं ततः ॥ १९९ ॥ पाययामि यथा मद्यं, सर्वानपि कुटुम्बिनः । गृहसारं निजं येन, सर्वमावेदयन्ति ते ॥२००॥ यतः क्रुद्धस्य रक्तस्य, व्यसनाऽऽपतितस्य च । मत्तस्य प्रियमाणस्य, सद्भावः प्रकटो भवेत् ॥ २०९॥ इति निश्चित्य चाणक्यः समाहूय कुटुम्बिनः । मद्येन मदयित्वा तान्, सद्भावं ज्ञातुमूचिवान् ॥ २०२॥ द्वे वस्त्रे धातुरक्ते मे, त्रिदण्डं स्वर्णकुण्डिका । वर्त्तते च वशे राजा, होलां वादयतात्र मे ॥२०३॥ तच्चाणिक्योक्तमाकर्ण्य, ते सर्वेऽपि कुटुम्बिनः । गर्वतः स्वस्वसर्वस्व -मेकैकानुष्टुभाऽभ्यधुः ॥२०४॥ सहस्रयोजनं मार्गं, गच्छतो मत्तदन्तिनः । पदे पदे वित्तलक्षं, होलां, वादयतादत्र मे ॥ २०५ ॥ तिलाढकस्य सुप्तस्य, सुनिष्पत्तिं गतस्य च । तिले तिले वित्तलक्षं, होलां, वादयतात्र मे ॥ २०६ ॥ नद्याः प्रावृषि पूरेण, वहन्त्याः पालिबन्धनम् । एकाहम्रक्षणैः कुर्वे, होला वादयात्र मे ॥२०७॥ जात्यानां च किशोराणा-मेकाहप्राप्तजन्मनाम् । छादयाम्यंशकेशैद्य, होलां वादयतात्र मे ॥२०८॥ शालिप्रसूर्ति गर्दभ्यौ, द्वे रत्ने मम तिष्ठतः । छिन्नछिन्नरुहे नित्यं, होलां वादयताऽत्र मे ॥ २०९॥ अप्रवासी वश्यभार्यः, सहस्रद्रविणोऽनृणः।
१. आकाशं । २. श्वेतवनस्पती ।