SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ क्षुद्रादेशो व्यसृज्यत ॥१८२॥ यथा चूताश्च वंशाश्च, ग्रामे तिष्ठन्ति व: तत । छित्त्वा चूतवनं वंश-वनस्य क्रियतां वृति: ॥१८३॥ दध्युमेयकास्तेऽथ, न चूतैर्वंशरक्षणम् । घटते किन्तु वंशौघै-चूतानां परिरक्षणम् ॥१८४॥ परमार्थमजानानैः, स्वबुध्येति विमृश्य तैः । छित्त्वा वंशास्ततश्चूत-वनस्य वृतिरादधे ॥१८५।। तमादेशविपर्यासं, मिषीकृत्य चणीप्रसूः । मदान्ध इव कुम्भीन्द्रः, कृत्याकृत्यमचिन्तयन् ॥१८६।। सबालवृद्धं तं ग्राम, बद्ध्वा द्वाराणि सर्वत: । द्वीपायनो द्वारवतीमिव प्राज्वालयत् क्रुधा ॥१८७॥ युग्मम् ॥ अथानिनाय तां भार्यामूचे च दयिते ! मया त्वत्कृते विहित: सर्वः, साम्राज्यार्थमुपक्रम: ॥१८॥ अपमानविषार्तिं ता-मैश्वर्यसुधयाऽधुना । तन्निवर्त्य महाभागे ! शचीवानुभव: सुखम् ॥१८९॥ चाणिक्यचरितं चैत-दाकर्ण्य श्वशुरोऽपि हि । भीतो भीत: समांगत्य, चाणिक्यमिदमूचिवान् ॥१९०॥ जामात: ! प्राग् यदस्माभिः, पुत्रोद्वाहे भवत्प्रिया । दयिता निर्धनस्येति, स्वपुत्र्यपि न सत्कृता ॥१९१॥ स तवैव तिरस्कारस्तत्त्वतोऽस्माभिरादधे क्षम्यतामेकदाऽस्माक-मपराध: प्रसद्य भोः ॥१९२॥ चाणिक्योऽप्यभवत्तस्य, सुप्रसनमनास्तत: । जायन्ते हि महीयांस:, प्रणिपातवशंवदाः ॥१९३॥ श्वशुरस्यापरेषां च, स्वजनानां ततो मुदा । स ददौ ग्रामदेशादी-नौचित्यादौचितींचणः ॥१९४॥ अन्यदाऽऽलोकयन् कोशं, शून्यं दुर्गतवेश्मवत् । दध्यौ च न भवेद्राज्यं, कोशहीनं विनक्ष्यति ॥१९५॥ अथ कोषकृतेऽकार्षी-च्चाणिक्य: कूटपाशकान् । रत्नस्थालं पुरस्कृत्य, ॥ ७ ॥ १. गुरवः ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy