________________
संप्रतिनृपतिचरित्रम् ॥
भ्रात ! त ? श्चन्द्रगुप्त !, तात ! चाणिक्य धीसख ! । म्रियते म्रियते रक्ष, रक्षेत्याा जजल्प च ॥१६९॥ चन्द्रगुप्तः प्रतीकारं, यावदारभतेऽस्य तु । तावद् भ्रकुर्णिमाबध्य, चाणिक्यस्तं न्यवारयत् ॥१७०॥ ऊचे चाद्यापि मुग्धोऽसि, नीति वेत्सि न भूपते: । अर्द्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥१७१।। कालक्षेपमतः सोऽपि, चक्रे व्यावर्तनादिभिः । अत्राणस्तटितप्राणस्ततः पर्वतको मृतः ॥१७२।। ततो राज्यद्वयेऽप्यासी-प्चन्द्रगुप्तः क्षितीश्वरः । चाणिक्यश्च महामन्त्री, राज्यनाटकसूत्रभुत् ॥१७३।। तदागमवरज्ञत्वात्, तत्र नन्दस्य पूरुषाः । सर्वे ते कुर्वते चौर्य, दुर्द्धरा: सिद्धविद्यवत् ॥१७४॥ तद्रक्षार्थं तलारक्ष-मीक्षमाणस्ततः पुरे । वेषान्तरेण चाणिक्यः, सर्वत्रापि परिभ्रमन् ॥
दामाख्यं, वयंतं क्वाप्यवैक्षत । रममाणः सुतस्तस्य, दष्टो मत्कोटकैस्तदा ॥१७६॥ रटनागत्य तस्याख्यत्, भक्षितो यमबन्धुना । खनित्वा तद्विलं सद्यस्ते सर्वे भस्मसात्कृताः ॥१७७॥ चाणिक्योऽपि हि योग्यो-ऽयमिति मत्वा गृहं गतः । तमाहूय तलारक्षं, चक्रे निस्त्रिंशशेखरम् ॥१७८।। तेनोक्तास्तस्करा: ! स्तैन्यं, कुरुत स्वेच्छयाऽधुना । जाते मयि तलारक्षे, समस्तं राज्यमात्मनः ॥१७९।। (?) इति विश्वास्य ते सर्वे, निमन्त्र्य सकुटुम्बकाः । द्वारं पिधाय भुजानाः, कृताः प्रज्वाल्य भस्मसात् ॥१८॥ ततः सौम्थ्यं पुरे तत्र. तथा जज्ञे यथा क्वचित् । चौरैः सहैव दग्धत्त्वा-योजनामा दिन श्रुतिः ॥१८॥ अथैकत्र पुरा ग्रामे, लब्धा भिक्षातवी पिन । चाणिक्येन ततस्तत्र,
१. तंतुवायम् ।