SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ चन्द्रगुप्तो विवातिां, म्रियतामिति चिन्तया ॥१५५|| सुवर्णरत्नमाणिक्य-वस्तु कुप्यादिकं पुनः । द्विषां किमपि भून्मेति, लात्वा सर्वं चचाल सः ॥१५६॥ चन्द्रगुप्तं विशन्तं च, निर्यनन्दप्रियात्मजा । दृष्ट्वोद्गतं सूर्यमिव, विचकासाब्जिनीव सा ॥१५७। ततस्तामूचिवानन्दः, पापे ! पश्यसि वैरिणम् । मम राज्यहरे रक्ता-दद्याहि भज वल्लभम् ॥१५८॥ ततश्चन्द्ररथारोहे, तस्यास्त्यक्त्वा रथं पितुः । मन्दलक्षया इव भारा-द्रमाश्चक्रारका नव ॥१५९॥ मन्वानोऽशकुनं चन्द्रगुप्तस्तां विनिवारयन् । चाणिक्येनौच्यतासौ ते, शकुनस्तनिषेध मा ॥१६०॥ भग्नारकं भवद्राज्यमितो भावि नवाऽन्वयम् । ततस्तां रथामारोप्य, चन्द्रगुप्तोऽविशत् पुरम् ॥१६१॥ नन्द ! पूर्णा प्रतिज्ञा मे पश्येयं छोट्यते शिखा । इत्युक्त्वा पश्यतस्तस्य, चाणिक्योऽच्छोटयच्छिखाम् ॥१६२।। गच्छति स्म बहिर्नन्द-स्ते तु नन्दगृहं गताः । दृष्ट्वा कन्यां च तां चन्द्र-पर्वतावन्वरज्यताम् ॥१६३॥ चाणिक्यो विषकन्यां तां, ज्ञात्वा चिद्वैस्ततोऽवदत् । चन्द्रगुप्त ! तवैकाऽभूत्, पर्वतस्यास्त्वसौ पुनः ॥१६४॥ युवाभ्यां नन्दसाम्राज्यं, ग्राह्यं सर्वं विभज्य यत् । प्रारंभे पर्वतोद्वाह-स्तदैवाथ तया सह ॥१६५॥ तत्र मङ्गलतूर्याणि, प्रणदन्ति स्म विस्वरम् । ज्वलनो वेदिकांतश्च, संहारशिखयाऽज्वलत् ॥१६६॥ लाजाञ्जलिश्च दैवज्ञो, जुहोति स्म स्खलन् स्खलन् । सुशोधितेऽपि लग्नेऽभू-भौमो नीचस्तनौ तदा॥१६७॥ लग्ने च लग्नवेलायां, सर्पवत्कन्यकाकरे । मूर्च्छित: शबराधीशो, विषाऽऽवेगेन तत्क्षणात् ॥१६८॥ १. कथितम् ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy