________________
संप्रतिनृपतिचरित्रम् ॥
नयति स्म वयस्यताम् ॥१३९॥ तमन्यदोचे चाणिक्यो, नन्दमुन्मूल्य तच्छियम् । आवां विभज्य गृणीवः, सोऽपि तत्प्रत्यपद्यत ॥१४०।। सर्वोघेणाथ चाणिक्यः, स्वीकुर्वनन्दमेदिनीम् । एकं नन्दपुरं स्फीतं, वेष्टयामास सर्वतः ॥१४१॥ शक्नोति तं न चादातुं, परिव्राड्वेषभाक् ततः । चाणिक्य: प्रविवेशान्त:-पुरं तद्वास्तु वीक्षितुम् ॥१४२।। अपश्यत् सुप्रतिष्ठाः स, भ्रमनिंद्रकुमारिकाः । दध्यौ चैतत्प्रभावेणा-ऽभङ्गमेतत्पुरं ध्रुवम् ॥१४३॥ चणी तद्वेष्टमापृष्टः, स निर्विण्णैर्जनस्तदा । आख्यदिन्द्रकुमारीणामासामुत्पाटने सति ॥१४४॥ मयैतल्लक्षणैर्जातं, प्रत्ययश्चैष कथ्यते । एतदुत्पाटनारम्भे-ऽपीषद्रोधनिवर्त्तनम् ॥१४५॥ तथारब्धेऽपि तैस्तेन, रोध: किञ्चिन्यवर्त्यत । ततः प्रत्ययितैर्लोक-स्तत्र कूपः कृतस्तदा ॥१४६॥ ततस्तन्नगरं तत्र, गृहीत्वा भूरिवैभवम् । सर्वां परिधिमादाय, पाटलीपुत्रमाययौ ॥१४७॥ ततस्तच्चन्द्रगुप्तस्य, पर्वतस्य च सैनिकैः । वेष्टितं सर्वतो दत्त-पोताऽऽवेष्टमिवाभवत् ॥१४८॥ दन्निन्दोऽपि निर्गत्य, निर्गत्य प्रतिवासरम् । महारणं प्रकुर्वाणः, क्षीयते स्म त्रुटद्बलः ॥१४९॥ धर्मद्वारं ययाचेऽथ, हन्तकारमिव द्विजः । चाणिक्यस्तद्ददौ तस्मै, नीतिरेषा हि भूभुजाम् ॥१५०|| उपालम्भश्च नन्दस्य, चाणिक्येन प्रदापितः । त्वया न किञ्चिन्मे दत्त-मर्द्धचन्द्रं विना तदा ॥१५१॥ दत्तं मयाऽधुना ते तु, जीवितं नन्द ! नन्द तत् रथेनैकेन यद्याति, तदादाय च निस्सर ॥१५२॥ नन्दो विषादमापनः, प्रक्षीणबलविक्रम:। दध्यौ धिग्धिक् श्रियं पापां, चपलां चपलामिव ॥१५३।। अथ नन्द: कलत्रे द्वे, पुत्रीमेकां च वल्लभाम् । तथा साराणि साराणि, रथे रत्नान्यतिष्ठिपत् ॥१५४॥ विषकन्यां पुन: पात्रभूतामेकां गृहेऽमुचत् । १. देवमूर्तीः ।
NASEENARIES