________________
मां विना चन्द्रगुप्तं च, कोऽपि मा स्म ग्रहीद्बहिः ॥ १२६ ॥ नन्दाश्ववारैर्दुवरिः, स चेदात्तः कथञ्चन । ततः सर्वस्वमोषान्मे, छिन्ना राज्यस्पृहालता ॥१२७॥ एवं विचिन्त्य रक्षो - वन्निः कृपः क्षुरिकाकरः । तस्योदरं विदार्याशु, चाणिक्यः पद्मकोषवत् ॥१२८॥ अविनष्टं स्वरूपस्थं, स्थाल्या इव करम्बकम् । तमादाय पुटे कृत्वा गत्वा मौर्यमभोजयत् ॥ १२९ ॥ युग्मम् ॥ पुनर्यान्तौ गतौ क्वापि, सन्निवेशे निशामुखे । चाणिक्यस्तत्र भिक्षार्थी, वृद्धाऽऽभीरीगृहं गतः ॥ १३० ॥ अत्रान्तरे स्वडिम्भानां, रब्बाऽत्युष्णा तया तदा । स्थाले दत्ताऽस्ति तन्मध्ये, न्यधादेकः शिशुः करम् ॥१३१॥ रुदन् दग्धकरः सोऽथ तया साक्रोशमौच्यत । किं चाणिक्यस्य निर्बुद्धे मिलितोऽसि त्वमप्यरे ॥१३२॥ स्वनामाशङ्कयाऽपृच्छ-च्चाणिक्यः स्थविरां ततः । मातः क एष चाणिक्य-स्त्वं यदीयोपमामदाः || १३३ ॥ तयोक्तं कोऽपि चाणिक्य-श्चन्द्रगुप्तनृपान्वितः । प्रागेव पाटलीपुत्र-मुपादातुमढौकत ॥१३४|| मूर्खो न वेत्ति यद्देशो, गृह्यते, प्राक् समन्ततः । गृहीते च ततस्तस्मिन्नात्तमेव हि पत्तनम् ॥ १३६ ॥ मत्पुत्रोऽप्येष तत्तुल्यः, पूर्वमेवाक्षिपत् करम् । मध्ये 'योऽत्युष्णरब्बाया, अनादायैव पार्श्वतः ॥ १३६ ॥ बालादपि हितं ग्राह्य-मिति नीतिं स्मरंस्ततः । स नन्दराज्यसंप्राप्ति - लग्नकं तद्वचोऽग्राहीत् ॥१३७॥ सचन्द्रगुप्तश्चाणिक्यः, संवंर्म्य बलात्मनः । गच्छ ततः शैलं, हिम वत्कूटनामकम् ॥१३८॥ शबराधिपतिं तत्र, चाणिक्यः पर्वताभिधम् । साहायकं ततः काङ्गन, १. मेलयित्वा ।
॥५॥