SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ संप्रतिनृपतिचरित्रम् ॥ वासांसि. रजकं स्माह तीरगम् ॥१११।। अरे रे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दगृह्या: प्रगृह्यन्ते, चन्द्रगुप्तस्य सादिभिः ॥११२॥ तच्छत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्द्रगुप्तस्तु नीरान्तः, स्थगित: पद्मिनीवने ॥११३॥ स च सादी तदावादी-च्चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रचाणिक्यौ, यान्तावत्रेति सोऽभ्यधात् ॥११४॥ चाणिक्यो न मया दृष्ट-चन्द्रगुप्तस्तु तिष्ठति । निलीन: पद्मिनीषण्डे, तापाक्रान्तमरालवत् ॥११५॥ दृष्ट्वा साद्यपि तं स्माह, क्षणं बिभ्रहि मे हयम् । तेनौच्यत बिभेम्यस्मा-त्तमाबध्यततस्तरौ ॥११६॥ जले प्रवेष्ट मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खगेन, चाणिक्यस्तमसाधयत् ॥११७॥ पुनावपि तस्याश्व-मथारुह्य पलायितौ । गत्वा च कियन्तीं भूमि, तमपि प्रागिवोज्झताम् ॥११८॥ गच्छन्नूचे च चाणिक्यश्चन्द्रगुप्तमरे त्वया । किं तदा चिन्तयाञ्चक्रे, यदाऽशिक्षिषि सादिनम् ॥११९॥ चन्द्रगुप्तोऽवदत्तात !, तदैवं चिन्तितं मया । मम साम्राजमार्येण, दृष्टमित्थं भविष्यति ॥१२०॥ तं निश्चिक्येऽथ चाणिक्यो, न मे व्यभिचरत्यसौ । मदुक्तमस्याऽनुल्लंघ्यं, शिष्यस्य गुरुवाक्यवत् ।।१२१॥ अथ क्षुधार्त संस्थाप्य, चन्द्रगुप्तं वनान्तरे । चाणिक्यः प्राविशत् कञ्चि-ग्राममन्नाय तत्कृते ॥१२२॥ तिलकैष्टीकमानाङ्गं, नाशालग्नमहोदरम् । दृष्ट्वैकं विप्रमायान्तं, चाणिक्यः पृच्छति स्म तम् ॥१२३॥ भोजनं लभ्यते क्वापि, सोऽवदल्लभ्यते भृशम् । एतस्य यजमानस्य, गृहेऽद्यास्ति महोत्सवः ॥१२४॥ सोऽपूर्वाणां विशेषेण, दत्ते दधिकरम्बकम् । व्रज त्वमपि भुक्त्वाऽह-मप्यायातस्ततोऽधुना ॥१२५॥ मा ज्ञासीनत्र मां कोऽपि, प्रविष्टं, नन्दपूरुषः ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy