SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ राज - नीत्या संवसथाद्बहिः ॥ ९६ ॥ पुरमालिख्य- निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भैः, सामन्तादिपदे कृतैः ॥९७॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्धरं । दृष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थमूचिवान् ॥९८॥ ममापि दीयतां किञ्चिदेवेत्याकर्ण्य सोऽभ्यधात् । विप्रैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ ९९ ॥ स स्माहैतान्यहं गृह्णान्, मार्ये गोस्वामिकैर्न किम् ? । स ऊचे किं न जानासि, वीरभोज्या वसुन्धरा ॥ १००॥ औदार्यशौर्यविज्ञानै स्तं बालं स विन्नपि । कस्यामिति पप्रच्छ, कञ्चिडिम्भं स ऊचिवान् ॥ १०१ ॥ महत्तरस्य दोहित्र - चन्द्रगुप्तोऽयमाख्यया । गर्भस्थोऽप्येष निःशेषः, परिव्राजकसात्कृतः ॥१०२॥ ततो हर्षेण चाणिक्य - चन्द्रगुप्तमभाषत । आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् ॥१०३॥ करोमि सत्यं राजानं, क्रीडाराज्येन किं तव । इत्युक्त्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ १०४ ॥ मेलयित्वा धनैस्तैश्च चतुरङ्गं महद्बलम् । चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री बभूव च ॥ १०५ ॥ सर्वौघेण ततो गत्वा ऽवेष्टयन्नन्दपत्तनम् । कारागार इवाऽरौत्सीत्, तत्र धान्यादिकं विशत् ॥१०६ ॥ नन्दोऽपि सर्वसामग्ग्रा, निःसृत्य नगराद्बहिः । मन्दराद्रिरिवाऽम्भोधिं, गाहयामास तद्बलम् ॥१०७॥ नन्दसैन्यबलेनाथ, चन्द्रचाणिक्ययोश्चमूः । अभ्रावलीव वात्याभि-र्गता सर्वा दिशोदिशम् ॥१०८॥ ततश्च चन्द्रचाणिक्या-वारुह्याऽश्वं पलायितौ । निवृत्य मेषवद्भूयः, प्रहर्तुं तौ दिशैकया ||१०९ || मा स्मापलक्षयेत् कोsपी-त्युज्झित्वा तुरगौ पथि । आरोहतां सरः पालीं, यातौ पादप्रचारतः ॥११०॥ सादिनं चैकमन्वागच्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं ॥ ४ ॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy