________________
संप्रतिनृपतिचरित्रम् ॥
· वचस्तु न ॥८॥ ततो बिम्बपरीक्षार्थं, परिवाड्वेषमादधत् । मयूरपोषकग्राम, नान्दं सोऽगात् परिभ्रमन् ॥८३॥ प्रविवेश है च भिक्षार्थं, स महत्तरमन्दिरम् । उद्विग्नस्तजनैः पृष्टो, भगवन् ! वेत्सि किञ्चन ॥८४॥ सोऽवदत् वेधि निःशेष, तमथोचे महत्तरः । तर्हि पूरय मत्पुत्र्या-श्चन्द्रम:पानदोहदम् ॥८५|| यतः साऽस्ति तदप्राप्त्या, प्रस्थितेव यमालये । तदेनं पूरयन्नस्या-स्त्वं जीवातुर्भवाधुना ॥८६।। अवतीर्णोऽस्ति गर्भेऽस्या, राज्याह: कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा-च्चाणिक्यस्तमभाषत ॥८७॥ दोहदं पूरयाम्यस्या-श्चेद्गर्भ में प्रयच्छत । प्रपन्नं तेन तद्यस्मा-जीवन्ती गर्भभृत् 'पुन: ॥८८॥ स ततः साक्षिणः कृत्वा-उकारवत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्रं, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥८९॥ अध: सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः-प्राप्तेन्दुप्रतिबिम्बभाक् ॥९०॥ चाणिक्यस्ता सुतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्र-रत्राऽऽकृष्यैष तत्पिब ॥९१॥ चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥९२।। गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम् । अर्द्धपीते स ऊचे ता-मियाँल्लोकार्थमस्त्विति ॥९३॥ तयोक्ते नेति सोऽवादीत्, पिब तन्यमत्र तां । लोकार्थमानयिष्यामी-त्येवं श्रद्धामपूरवत् ॥९४॥ अथोत्पादयितुं द्रव्यं, स धातुविवरेष्वगात् । धातु दैश्च तत्प्राज्य-मुत्पाद्य पुनरागमत् ॥१५॥ ददर्श तत्र चाणिक्यः, सर्वलक्षणधारिणम् । क्रीडन्तं दारकं