Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 118
________________ प्रदक्षिणां दत्त्वा तस्या एव पादयोः प्रणनाम पश्चात् स सुरस्तं मुनिं वंदते स्म, ततश्च स सुरो मुनेरग्रे धर्म श्रोतुं समुपविष्टः. अथैवं तस्य सुरस्य विपरीतवंदनं निरीक्ष्य खगाधिप: स मणिप्रभस्तं सुरं नत्वा प्राह, भो देव ! युष्माद्दशा देवा अपि यदा नीतिमार्गमुलंघयंति, तदास्मादृशां मनुष्याणां किं दूषणं ? त्वयैनं चतुर्ज्ञानधरं चारणमुनिं मुक्त्वा प्रथमं कथमियं मानुषीमात्रा नमस्कृता ? तत् श्रुत्वा स सुरो यावत्किंचिद्वदति, तावत्स मुनिरेवाचष्ट, भो खेचर ! त्वमेवं मा ब्रूहि ? नैवायं सुरस्तथाविधं तवौपालंभमर्हति. त्वमस्य देवस्य वंदनहेतुं शृणु !? यदास्या: मदनरेखाया भर्ता युगवाहुः अस्यामेवासक्तमानसेन ज्येष्ठभ्रात्रा मणिरथेन खङ्गप्रहारेण हतस्तदा तत्प्रांतसमयेऽनया स्त्रिया स स्वभर्ता मधुरैर्वचनैस्तथाराधनया नियमितो यथा जैनेंद्रं ध्यानं ध्यायन् स युगबाहुः पंचत्वं प्राप्य पंचमे कल्पे इंद्रसामानिक: सुरोऽभूत्. तत्र च स देवोऽवधिज्ञानेनेमांमदनरेखांस्वधर्मदात्रीं गुर्विणीं मन्वानोत्रागम्य प्रथममिमामनमत्. एवं धर्मदायिन्या अस्या: कोटिशः प्रणामैरप्ययं देवो नानृणो भवेत् यत:-यो चेन स्थाप्यते धर्मे । यतिना गृहिणापि वा ॥ स एव तस्य सध्धर्म-दाता धर्मगुरुर्भवेत् ॥१॥ किंच-सम्यक्त्वं ददता दत्तं । शिवसौख्यं सनातनं ॥ एतद्दानोपकारस्योपकारः कोऽपि नो समः ॥२॥ सम्मत्तदायगाणं । दुप्पडियारं भवेसु बहुएसु ॥ सव्वगुणमेलियाहिं वि । उवयारसहस्स कोडीहिं ॥३॥ ॥ ५ ॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152