Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पतिताहं कथं निजशीलरक्षणं करिष्ये ? कामपीडितोऽयं खेचर: किमपि कृत्याकृत्यं न ज्ञास्यति. इदानीं तु मया केनापि X - च्छलेन कालविलंब एव करणीयः. इति विचिंत्य सा तं जगाद, भो खेचराधीश ! प्रथमं त्वं मा नंदीश्वरद्वीपं नय ?
तत्र देवान्नत्वा पश्चादहं त्वदुक्तं करिष्ये. इति श्रुत्वा तुष्टेन तेन खगेन सा क्षणानंदीश्वरद्वीपं नीता, तत्र च सैवं शाश्वतानि जिनचैत्यानि वंदते स्म, यथा-चत्वारोंचनशैलेषु । दधिमुखेषु षोडश ॥ द्वात्रिंशच्च रतिकरा-भिधानेषु जिनालयाः ॥१॥ योजनानां शतं दीर्घा: । पंचाशद्विस्तृताश्च ते ॥ द्विसप्तत्युच्छ्रिताः सर्वे । द्विपंचाशद्भवत्यमी ॥ २ ॥ एवं तत्र, ऋषभचंद्राननवारिषेणवर्धमानाभिधान् शाश्वतजिनान्नत्वा सा मदनरेखा तेन खेचरेण सह तत्र स्थितं मणिचूडमुनीश्वरनमस्कृत्य यथोचितस्थाने विद्याधरसभायां धर्मोपदेशं श्रोतुं समुपविष्टा. तदा स ज्ञानवान् मणिचूडमुनिश्वरोऽपि निजपुत्रहृदयविचारं विज्ञाय तदुचितां देशनां ददौ, यथा भो भो भव्यलोका: ! कुमार्गः सर्वथापि न सेव्य: परस्त्रीगमनादिकुमार्गसेवया नूनं नराणां श्वश्रुपात एव भवति, यत:-परस्त्रीगतिवांछात: । पुरुषो नरकं व्रजेत् ॥ अन्यनृसेवया । नारी । गामिनी नरके भवेत् ॥१॥ दास: पराभवकाराः । बंधुजनो बंधनं विषं विषयाः ॥ कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशाः ॥२॥ पुत्रो मेधाता मे । स्वजनो मे गृहकलत्रवर्गो मे ॥ इति कृतमेमेशब्दं । पशुमिव मृत्युर्जन
॥

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152