Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
2-83-85-8583838888888888888KBE
विमानं कुर्वतापि मे विमानं ढौकितं त्वया ॥३५२॥ सर्वमेतत्त्वया चक्रे मां ज्ञातुं मंत्रिपुंगव ! । तव बुद्धिर्जनोत्कृष्टा गुरोरपि वचोऽतिगा ॥३५३॥ महिमा तव हस्तस्य मंत्रीश्वरः ! महत्तरः । यद्दत्तासवयोगेन विमानमभवन्मम ॥३५४|| अपराधो मया मंत्रिन् ! यः कृतो वचनातिग: तेनापि ते. प्रसादेन साधुर्जातो जगत्त्रये ॥३५५॥ उपकारकरः कोऽपि त्वत्तो नान्यो जगत्त्रये । मया पुरं विनटितं त्वयाहं पायितोऽमृतं ॥३५६॥ शृण्वमात्य ! प्रियंते ये जीवंतोऽपि नराः क्षितौ । महावीरप्रसादेन ते जायतेऽजरामराः ॥३५७॥ त्वयाहं पायितो यस्तु क्रोशो देव्याः स तूत्तमः । जातोऽहं तेन निर्दोषो यत्वत्पाणिप्रभावत: ॥३५८॥ देवोऽभणत् करे देव्या असिर्योऽतिगुणो हि सः । तेन मे मस्तकाद्दोषः सर्वोऽप्युत्तारितः क्षणात् ॥३५९|| खड्गप्रहारो यो दत्तो देव्या मे मस्तकेऽनया । परमार्थस्वरूपेण स मे संसारतारकः ॥३६०॥ लोकाः शृण्वन्तु सर्वेऽपि चौरोऽहं चोरवंशजः । मातृपितृपक्षशुद्धो देवानामपि दुर्धरः ॥३६१॥ गन्तुं नो दत्तवान् वीरसभायां जनको मम । इयत्कालं ततस्तेन वंचितोऽहं सदैव हि ॥३६२। तद्वाक्यस्यानृणीभूतः कृतश्चाभयमंत्रिणा । भवपारं व्रजिष्यामि लात्वा दीक्षामथाहकं ॥३६३॥ एकेन वीरवाक्येन यदाहं बुद्धिपाशत: । छुटितोऽथ ततस्तस्य श्रोतुमिच्छामि वाग्भर ॥३६४॥ अभयोऽप्यवदद्वीरवाक्यानि च श्रुतानि भोः । यानि तान्येव यशसा कीर्त्या च फलितानि ते ॥३६५॥ चतुर्द्धा बुद्धयो या हि वर्तते वसुधातले । सर्वासामप्यहं तासां निधानं पुण्ययोगतः ॥३६६॥ मयापि मतिभिस्ताभिर्न निर्णितो भवानहो ! मद्यैर्नाप्यभवन्मत्तः स्त्रीभिश्चापि न वाहितः ॥३६७॥
BBBSSSSSSSSSSSSSSSSSSSSSSSSSSS
॥ १२ ॥

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152