________________
2-83-85-8583838888888888888KBE
विमानं कुर्वतापि मे विमानं ढौकितं त्वया ॥३५२॥ सर्वमेतत्त्वया चक्रे मां ज्ञातुं मंत्रिपुंगव ! । तव बुद्धिर्जनोत्कृष्टा गुरोरपि वचोऽतिगा ॥३५३॥ महिमा तव हस्तस्य मंत्रीश्वरः ! महत्तरः । यद्दत्तासवयोगेन विमानमभवन्मम ॥३५४|| अपराधो मया मंत्रिन् ! यः कृतो वचनातिग: तेनापि ते. प्रसादेन साधुर्जातो जगत्त्रये ॥३५५॥ उपकारकरः कोऽपि त्वत्तो नान्यो जगत्त्रये । मया पुरं विनटितं त्वयाहं पायितोऽमृतं ॥३५६॥ शृण्वमात्य ! प्रियंते ये जीवंतोऽपि नराः क्षितौ । महावीरप्रसादेन ते जायतेऽजरामराः ॥३५७॥ त्वयाहं पायितो यस्तु क्रोशो देव्याः स तूत्तमः । जातोऽहं तेन निर्दोषो यत्वत्पाणिप्रभावत: ॥३५८॥ देवोऽभणत् करे देव्या असिर्योऽतिगुणो हि सः । तेन मे मस्तकाद्दोषः सर्वोऽप्युत्तारितः क्षणात् ॥३५९|| खड्गप्रहारो यो दत्तो देव्या मे मस्तकेऽनया । परमार्थस्वरूपेण स मे संसारतारकः ॥३६०॥ लोकाः शृण्वन्तु सर्वेऽपि चौरोऽहं चोरवंशजः । मातृपितृपक्षशुद्धो देवानामपि दुर्धरः ॥३६१॥ गन्तुं नो दत्तवान् वीरसभायां जनको मम । इयत्कालं ततस्तेन वंचितोऽहं सदैव हि ॥३६२। तद्वाक्यस्यानृणीभूतः कृतश्चाभयमंत्रिणा । भवपारं व्रजिष्यामि लात्वा दीक्षामथाहकं ॥३६३॥ एकेन वीरवाक्येन यदाहं बुद्धिपाशत: । छुटितोऽथ ततस्तस्य श्रोतुमिच्छामि वाग्भर ॥३६४॥ अभयोऽप्यवदद्वीरवाक्यानि च श्रुतानि भोः । यानि तान्येव यशसा कीर्त्या च फलितानि ते ॥३६५॥ चतुर्द्धा बुद्धयो या हि वर्तते वसुधातले । सर्वासामप्यहं तासां निधानं पुण्ययोगतः ॥३६६॥ मयापि मतिभिस्ताभिर्न निर्णितो भवानहो ! मद्यैर्नाप्यभवन्मत्तः स्त्रीभिश्चापि न वाहितः ॥३६७॥
BBBSSSSSSSSSSSSSSSSSSSSSSSSSSS
॥ १२ ॥