SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ SSSSSSSSSSSSSSSSSSSB अथ चौरोऽवदन्मंत्रिन् ! स्वप्नं लब्धं मयाधुना । तत्र जानाम्यहं यत्त्वं श्वेतांब्यां सचिवोऽभवः ॥३६८॥ तवांगरक्षकश्चाहं समादेशकरोऽन्वहं । नित्यं पृष्ठानुगामी च सत्त्ववान् संरलाशयः ॥३६९।। पार्श्वेऽन्यदा प्रधानस्य मायावी जनवंचकः । योगीन्द्ररूपधारी च धूर्त एकः समाययौ ॥३७०॥ स स्वीयेन गुरुत्वेन मानाभ्युत्थानदानतः । तेन सन्मानितोऽतीव स्वभावो हि सतामसौ ॥३७१॥ एकदावसरं लब्ध्वा स आगमनकारणं । पृष्टः प्रधानवर्येण सोऽप्याख्याति स्म तत्पुरः ॥३७२॥ वनं कौतुकभंडार - नानाश्चर्यमनोहरं । विचित्रौषधिवल्लीभिवृक्षैश्चापि समाकुलं ॥३७३॥ आयासि चेदने तत्र स्वर्णसिद्धिं ददामि तत् । बह्वाश्चर्यकारा 0 विद्या मंत्रांश्च शतसंख्यकान् ॥३७४॥ अनापछ्य कुटुंबं स्वं ययौ तमनुयोगिनं । लोभाभिभूतः सचिवो लोभो हि दुरतिक्रमः ॥३७५॥ उल्लंध्य बहुला भूमिं योगी सचिवमूचिवान् । अपायस्थानकं ह्येतद्वनं प्रेतवनोपमं ॥३७६॥ कृतांततुल्यरूपा हि भिल्लानामत्र कोटयः । भयानकाश्च भल्लूका व्याघ्रसिंहाः सहस्रशः ॥३७७॥ अदृश्यीभूय चेदत्र गम्यते वै ततो वरं । गमनस्य प्रकारोऽत्र कांतारे नान्यथा नृणां ॥३७८॥ चिक्षेपांजनमित्युक्त्वा स योगी तस्य नेत्रयोः । तत्प्रभावेण सचिवो व्याघ्ररूपत्वमाददे ॥३७९॥ योगी स निश्चलं कृत्वा तं व्याघ्र स्तंभिनीबलात् । आरुरोह सुखं तेन पंथानमतिवाहयत् ॥३८०॥ मार्गेऽथ गच्छतस्तस्य मिलितौ राक्षसावुभौ । वृद्धेन राक्षसेनोक्तं यासि योगिन् ! क्व मे पुरः ॥३८१॥ गंधेन मयकाज्ञायि व्याघ्रोऽयं मानुषोऽभवत् । तन्मह्यमेनं देहि त्वं यथा भक्ष्यं भवेन्मम ॥३८२॥ अनर्पयति योगीन्द्रे संग्रामोऽभूत्तयोमिथः । त्रिशूलेन 888888888888888888
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy