________________
तद्धितेष्वपत्यत्वाधिकारः ।
भूर्लुक्चेवर्णस्य ॥ ८६ ॥ बहोरीयसाविनि च भूः स्याल्लुक् चानयोरि
वर्णस्य । भूमा ।
स्थूलदूरयुवह्नस्त्रक्षिप्रक्षुद्रस्यान्तस्था
देर्गुणश्च नामिनः ॥ ८७ ॥
एषां पण्णामिनि ण्यादौ चान्तस्थादेरवयवस्य लुगू नामिनश्च गुणः । स्थविमा २ दविमा इसिमा २ क्षेपिमा २ क्षोदिमा २ । वर्णदृढादिभ्यष्ट्यण् च वा ॥ ८८ ॥ वर्णविशेषेभ्यो दृढादिभ्यश्च भावे व्य इमन् च वा । शौक्ल्यं शुक्लिमा २ | दायै द्रढिमा २ | पतिराजान्तगुणाङ्गराजादिभ्यः
कर्मणि च ॥ ८९ ॥
१३१
पत्यन्तेभ्यो राजान्तेभ्यो गुणः प्रवृत्तिनिमितं येषां तेभ्यो राजादिभ्यश्च भावे कर्मणि च व्य स्यात् । अधिपतेर्भावः कर्म वा आधिपत्यम् २ आधिराज्यं २ मौढ्यं २ राज्यं २ काव्यं २ सौभाग्यं २ । भावे कर्मणि च इत्यनुवर्तनीयमधिकारात् । अर्हतस्तोन्त च ॥ ९० ॥
अस्मात् व्यण् तस्य न्तादेशः । आर्हन्त्यं २ | ( सहायाद्वा व्यण* ) साहाय्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org