Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 306
________________ २९८ हैमलधुप्रक्रियाव्याकरणे भूश्यदोऽल् ॥ १३८ ॥ - एभ्यः सोपसर्गेभ्यो भावाऽकोरलू स्यात् । प्रभवः । संश्रयः । विघसः। युवर्णवृदृवशरणगमृद्रहः ॥ १३९ ॥ . इवोवर्णान्तेभ्यो ब्रादेरृदन्तेभ्यो ग्रहश्च भावाकारलू स्यात् । वयः। क्रयः। रवः । लवः । वरः। आदरः । वर्षादयः क्लीबेऽलन्ता निपाताः । संमदप्रमदौ हर्षे निपातावित्यादि । निघादयोऽप्येवम् । मूर्तिनिचिताऽभ्रे घनः ॥ १४०॥ मूर्तिः काठिन्यम् निचितं निरन्तरम् अभ्रा मेघाः एष्वर्थेषु हन्तेरल घनादेशश्च । दधिघनाः केशाः। घनो मेघः। वेरशब्दे प्रथने ॥ १४१ ॥ वे परात् स्तुणातेरशब्दविषये विस्तीर्णत्वे घञ् स्यात् । विस्तारः पटस्य । शब्दे तु विस्तरः।। ___ द्वितोऽथुः ॥ १४२ ॥ द्वितो धातोर्भावाकोरथुः स्यात् । वेपथुः । वमथुः। डितस्त्रिमा तत्कृतम् ॥ १४३॥ डितो धातो वाकत्रोंस्त्रिमक् तेन कृतमित्यर्थे । पाकेन कृतं पत्रिमम् । कृत्रिमम् । दागस्तादेशे, परीत्रिमम् । MA Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320