Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 304
________________ हैमलघुप्रक्रियाव्याकरणे स्म्यजसहिंसदीपकम्पकमनमो रः ॥ १२६ ॥ एभ्यः सप्तभ्यो रः स्यात् । स्मेरः । अजस्रं । हिंस्रः । दीप्रः । कम्प्रः । कखः । नम्रः । तृषि षिखपो नजिङ् ॥ १२७ ॥ एभ्यो नजिङ् प्रत्ययः स्यात् । तृष्णक् । धृष्णक् । स्वमकू | २९६: - स्थेशभासपिसकसो वरः ॥ १२८ ॥ स्पष्टम् । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । विकस्वरः । शंखयंविप्रावदुः ॥ १२९ ॥ एभ्यः पराद्भुवो डुः स्यात् । शम्भुः । सम्भुः । स्वयम्भुः । विभुः । प्रभुः । इति शीलार्थाधिकारैः उणादयः ॥ १३० ॥ सदर्थाद्धातोरुणादयो बहुलं स्युः । कारुः । वायुः । क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती ॥ १३१ ॥ यस्माद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद्धातोस्तुमादयः स्युः । कर्तुम् कारकः करिष्यामीति याति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320