Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 318
________________ हैम लघुप्रक्रियाव्याकरणे ऋदुपान्त्यादकृपि चृदृचः ॥ २०६ ॥ कृप्यादिवर्जाद्ददुपान्त्यात्क्यप् स्यात् । वृत्यम् । कृप्यादिवर्जनात् कल्प्यम् । कृवृषिमृजिशंसिगुहिदुहिजपो वा ॥ २०७ ॥ एभ्यः सप्तभ्यः क्यप् वा स्यात् । कृत्यं कार्य वृष्यं वये मृज्यं मार्ग्य शत्वं शंस्यं गुह्यं गोह्यं दुह्यं दोह्यं जप्यं जाप्यम् । शक्ताऽर्हे कृत्याश्च ॥ २०८ ॥ शक्ते च कर्तरि गम्ये धातोः कृत्याः सप्तमी च स्युः । भवता खलु भारो वाह्यः । भवान् हि शक्तः । भवता खलु कन्या वाह्या । भवानेव तदर्हति । ३१० व्याप्ये घुरकेलिमकृष्टपच्यम् ॥ २०९ ॥ घुरकेलिमौ प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्तरि स्युः । स्वयं भयते इति भङ्गुरं काष्ठम् । पचेलिमा माषाः । कृष्टपच्याः शालयः । इति श्रीमहोपाध्यायश्री कीर्त्तिविजयगणि शिष्योपाध्यायश्री विनयविजयगणिविरचितायां हैमलघुप्रक्रियायां तृतीया वृत्तिः समाप्ता । संपूर्णा चेयं प्रक्रिया | Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320