Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 314
________________ हैमलघुप्रक्रियाव्याकरणे रुणम् चाभीक्ष्णये ॥ १८५ ॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः ख्णम् क्त्वा च स्यात् । भोजं भोजं याति । भुक्त्वा भुक्त्वा व्रजति । घटादेरिति वा दीर्घे, घाटं २ घटं २ । आभीक्ष्ण्यव्यक्तये द्विर्वचनम् । ३०६ अन्यथैवंकथमित्थमः कुगोऽनर्थकात् ॥ १८६ ॥ एभ्यश्चतुर्भ्यः परात्तुल्यकर्तृकात् कृगोऽनर्थकाद्धातोः संबन्धे रूणम् वा स्यात् । अन्यथाकारं एवंकारं कथङ्कारं इत्थंकारं भुङ्क्ते । स्वाद्वर्थाददीर्घात् ॥ १८७ ॥ स्वाद्वर्थाददीर्घान्तात् व्याप्यात्परस्मात्तुल्यकर्तृकात्कृगो धातोः संबन्धे ख्णम् वा स्यात् । स्वादुङ्कारं मृष्टङ्कारं भुङ्क्ते । पक्षे स्वादुं कृत्वा ( विद्द - गूभ्यः कात्सूर्ये णम*) अतिथिवेदं भोजयति । कन्यादर्श वरयति । व्याप्याच्चेवात् ॥ १८८ ॥ व्याप्यात्कर्तुःश्चोपमानात्पराद्धातोस्तस्यैव संबन्धे णम्वा स्यात् । सुवर्णनिधायं निहितः । काकनाशं नष्टः । एवं यावज्जीवमधीते । शुष्कपेषं पिनष्टि । Jain Education International / For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320