Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 295
________________ कृदन्तप्रक्रिया | -२८७ क्षेस्तो नस्तद्योगे क्षेः क्षीश्च नतु घ्यार्थे । क्षीणः क्षीणवान् । अध्यार्थे इति किम् । भावकर्मके क्षितमस्य । ऋह्रीघ्राधात्रोन्दनुदविन्तेर्वा ॥७४॥ एभ्योऽष्टाभ्यः क्तयोस्तोन्वा स्यात् । ऋणं ऋतम् । हीणः हीणवान् । ह्रीतः हीतवान् । क्षैशुषिपचो मकवम् ॥ ७५ ॥ एभ्यस्त्रिभ्यः कयोर्यथासङ्ख्यं मकवाः स्युः । क्षामः क्षामवान् । शुष्कः शुष्कवान् । पक्कः पक्कवान् । (निर्वाणमवाते* ) निपातोऽयम् । निर्वाणो मुनिः । वाते तु कर्तरि । निर्वातो वातः । एवं क्षीवादयो निपाता ज्ञेयाः । क्षुधवसस्तेषाम् ॥ ७६ ॥ क्तवतुक्त्वामिट् स्यात् । क्षु आभ्यां परेषां धितः २ । उषितः २ । लुभ्यञ्चेर्विमोहाचें ॥ ७७ ॥ आभ्यां यथासङ्ख्यं विमोहन पूजार्थाभ्यां चक्तवतुक्त्वामिट् स्यात् । विलुभितः २ । अञ्चितः २ । ऋवर्णभ्यूर्णगः कितः ॥ ७८ ॥ ऋवर्णान्तादेकस्वराद्धातोः श्रेरुर्णोश्च कित इट् न स्यात् । वृतः, श्रितः, ऊर्णुतः । एकस्वरादिति किम् । जागरितः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320