Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 284
________________ पृ०५ मं०५] टिप्पणानि । अथ स्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमश्नुते । न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति । अहो ! महती महीयसो भवतः शेमुषी । ननु यदि स्वभावत एव आभिनिबोधादिको ज्ञानस्य भेदः, तर्हि भगवतः सर्वज्ञत्वहानिप्रसङ्गः । तथाहि - ज्ञानमात्मनो धर्मः । तस्य चाभिनिबोधादिको भेदः स्वभावत एवं व्यवस्थितः क्षीणावरणस्यापि तद्भावप्रसङ्गः । सति च तद्भावे अस्मादृशस्येव भगवतोऽपि । असर्वज्ञत्वमापद्यते । केवलझानभावतः समस्तवस्तुपरिच्छेदानासर्वज्ञत्वमिति चेत् । ननु यदा केवलोपयोगसंभवस्तदा तस्य भवतु भगवतः सर्वज्ञत्वं यदा तु आभिनिबोधिकादिशानोपयोगसंभवः तदा देशतः परिच्छेदसंभवात् अस्मादृशस्येव तस्यापि बलादेवासर्वज्ञत्वमापद्यते । न च वाच्यम् - तस्य तदुपयोग एव न भविष्यति, आत्मखभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात् , केवलज्ञानान्तरं केवलदर्शनोपयोगवत् । ततः ॥ केवलज्ञानकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्वज्ञत्वमापद्यते । तच विरुद्धमतोऽनिष्टमिति । आह च "नत्तेगसहावते आभिणिबोहाइ किंकओ भेदो। नेयविसेसाओ चे न सव्वविस जओ चरिमं ॥ अह पडिवत्तिविसेसा नेगंमि अणेगमेयभावाओ। आवरणविमेओ वि हु सभावमेयं विणा न भवे ॥ सम्मि य सइ सव्वेसिं खीणावरणस्स पावई भावो । तद्धम्मत्ताउ चिय जुत्तिविरोहा स चाणिडो॥ अरहावि असव्वभू आमिणिबोहाइभावओ नियमा। केवलभावाओ चे सव्वण्णू नणु विरुद्धमिणं ॥" तस्माद् इदमेव युक्तियुक्तं पश्यामो यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिझानं तावत् सकलमप्येकम् , तचासकलसंज्ञितम् , अशेषवस्तुविषयत्वाभावात् । अपरं च केवलिनः । तच सकलसंज्ञितमिति द्वावेव भेदौ । उक्तं च - "तम्हा अवग्गहाओ आरब्भ इहेगमेव नाणं ति । - जुत्तं छउमस्सासकलं इयरं च केवलिणो ॥" . अत्र प्रतिविधीयते । तत्र यत्तावदुक्तं- 'सकलमपीदं ज्ञानं ज्ञत्ये कस्वभावत्वाविशेषे. किंकृत एष आभिनिबोधादिको भेद इति तत्र ज्ञप्त्येकखभावता किं सामान्यतो भवता अभ्यु. पगम्यते विशेषतो वा' । तत्र न तावदायः पक्षः क्षितिमाधत्ते सिद्धसाध्यतया तस्य बाध. कत्वायोगात् । बोधस्वरूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव । ततः का नो हानिरिति । अथ द्वितीयपक्षः । तदयुक्तम् । असिद्धत्वात् । न हि नाम विशेषतो विज्ञानमेकमेवोपलभ्यते प्रतिप्राणि स्वसंवेदनप्रत्यक्षेणोत्कर्षापकर्षदर्शनात्, अथ यास्कर्षापकर्षमात्रभेददर्शनात् ज्ञानभेदः तर्हि तावुत्कर्षापकर्षों प्रतिप्राणि देशकालायपेक्षया शतसहस्रशो भिद्यते । ततः कथं पश्चरूपता ? । नैष दोषः। परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् । तथाहि - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350