Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh
View full book text
________________
ज्ञानविन्दुप्रकरणस्य [पृ०२९५०.. घटस कार्येनाभिनिर्वर्तकः, अभिनिर्वृत्तस्य चोत्क्षेपणोद्वहनसमर्थः, यथाऽन्ये पुरुषा, न च ये घटस्योत्क्षेपणादयः तत्कारी घटस्याभिनिर्वर्तकः । एवमत्रापि यो दहति पचति प्रकाशयति च यथा स्वगतेन लक्षणेनासाधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽमिर्न शुखादय इति निगमनम् ॥ ३०५ ॥ ३०६ ॥ , सम्प्रति लोकोत्तरे संहितादीनि दर्शयति -
उत्तरिए जह दुमाई तदत्थहेऊ अविग्गहो चेव । को पुण दुसु त्ति वुत्तो भण्णइ पत्ताइउववेओ ।। ३०७ ॥ तदभावे न दुमु त्ति य तदभावे वि स दुमुत्ति य पदमा ।
तग्गुणलद्धी हेऊ दिटुंतो होइ रहकारो ॥ ३०८ ॥ ॥ सम्प्रति मवान्तरेणान्यथा व्याख्यालक्षणमाह -
सुत्तं पयं पयत्थो पयनिक्खेवो य निमयपसिद्धी ।
पंच विगप्पा एए दो सुत्ते तिमि अत्थम्मि ॥ ३०९ ॥ प्रथमतोऽस्खलितातिगुणोपेतं सूत्रमुच्चारणीयम्, ततः 'पद' पदच्छेदो विधेयः । तदनन्तरं पदार्यः कथनीयः । ततः 'पदनिक्षेपः' पदार्थनोदना । तदनन्तरं 'निर्णयप्रसिद्धिः' निर्णयवि॥धानम् । पदविग्रहः पदार्थेऽन्तर्भूतः । एवमेते पञ्च 'विकल्पा' प्रकाराः व्याख्यायां भवन्ति ।
पत्र सूत्रं पदमिति द्वौ विकल्पौ सूत्रे प्रविष्टौ । 'त्रयः' पदार्थ-तदाक्षेप-निर्णयप्रसिक्षात्मका अर्थ इति ॥ ३०९ ॥" - बृहत् । अनु.सू. १५५/ [ पृ०२९ पं०४] 'उपदेशपदादौ' - उपदेशपद गा० ८५९-८८५ । षोडशक १.१० ।
"ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् ।
चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥ वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् ।। ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रलदीप्तिसमम् ॥" षोडशक ११.६-९। "मूअं केवलसुत्तं जीहा पुण होइ पायडा अत्थो।
सो पुण चउहा भणिओ हंदि पयत्थाइमेएण ॥ १५५ ॥ 'मकं' मूकपुरुषतुल्यं कस्यचिदर्थस्यावाचकम् , 'केवलसूत्र व्याख्यानरहितसूत्रम् । अर्थः • पुनः प्रकटा जिला, परावबोधहेतुत्वादिति । तदेवानाह । हंदीत्युपदर्शने । स पुनरर्थः पदार्थाविभेदेन चतुर्दा भणितः । तदुक्तम् -
“पयवकमहावकत्थमइदंपजं च एत्थ चत्तारि । ... सुअभावावगमम्मि हंदि पगारा विणिदिवा ॥" [उपदेशपद गा० ८५९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350