Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 318
________________ पृ० २९५०५.] टिप्पणानि । मवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापाश्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति । - प्रमत्तयोगाच प्राणातिपाताचवद्यमिति व्यवस्थिते यदुच्यते परेण -असंचिन्त्य वा भ्रान्त्या वा मरणं नावद्यहेतुकमिति । अत्र प्रतिविधीयते- असंचिन्त्य कुर्वतो यद्यवद्यासंभवस्ततो मिध्यादृष्टेरभावः सुगतशिष्याणाम् । यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिध्येति संचिन्त्य । अथैवं मन्येथाः-तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुख्या दन्दशूकं कल्पयतः कथं न हिंसा । अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यात् - 'मिथ्यादर्शनमेतत्' इति । तुल्यमेव तत् सर्पच्छेदेऽपि । अथ संशयहेतुत्वात् मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावचं स्यात् ।। संसारमोचकगलकर्तकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचयतामधर्मोऽयमिति एवं वा संचेयतां नावचं स्यात्, अन्याभिसंधित्वात् । अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति । सत्यमेव तत्, किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मों भवतीति । संविद्रते च स्फुटमेवं सौगता:-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगतिकारण-1॥ मानन्तर्यकमबुद्धेरबुद्धित्वादेव न स्यात् । इष्यते चानन्तर्यकम् । अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीया. नामपि अवधेन योगः स्यात् यतः ते विदन्त्यार्हतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोयमिति संज्ञानमात्रेण सांख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण संचेतयतः कल्पाकारमपि बुद्धनामानं प्रत आनन्तर्यकं स्यात् । तथा मातापित्रहद्वधस्तूप-. भेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽन्नमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपाताधवद्यहेतुतया ग्राह्यौ । अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथा आत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायाहते शस्रोल्लम्बनामिजलप्रवेशादिभिः । तस्मादात्मनोऽपि अविधिवधोऽवयहेतुरिति यत्किश्चित् परग्रहणमपि इति । ५ एवं सति कचित् कचिद् भावत एव प्राणातिपाताचवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावचं हिंसा मारकस्येवेति । प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणः । ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावयम् । अप्रमत्तस्य तु आगमानुसारिणो न भवति । तस्मादेनःपदमेतद् वसुबन्धोरामिषगृद्धस्य गृध्रस्येवाप्रेक्षाकारिणः । अयं पुनरप्रसंग एव. मूढेनोपन्यस्त:-शिरोलुश्वनाथुपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसंग इति यतस्तत्राज्ञानाविप्रमादासंभवोऽत्यन्तमेव शासितरि । ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपो देशितम् । कुतोऽवयप्राप्तिरप्रमत्तस्येति । अन्नदानमपि श्रद्धाशक्त्याविगुणसमन्वितोऽ- . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350