________________
पृ० २९५०५.] टिप्पणानि । मवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापाश्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति । - प्रमत्तयोगाच प्राणातिपाताचवद्यमिति व्यवस्थिते यदुच्यते परेण -असंचिन्त्य वा भ्रान्त्या वा मरणं नावद्यहेतुकमिति । अत्र प्रतिविधीयते- असंचिन्त्य कुर्वतो यद्यवद्यासंभवस्ततो मिध्यादृष्टेरभावः सुगतशिष्याणाम् । यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिध्येति संचिन्त्य । अथैवं मन्येथाः-तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुख्या दन्दशूकं कल्पयतः कथं न हिंसा । अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यात् - 'मिथ्यादर्शनमेतत्' इति । तुल्यमेव तत् सर्पच्छेदेऽपि । अथ संशयहेतुत्वात् मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावचं स्यात् ।। संसारमोचकगलकर्तकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचयतामधर्मोऽयमिति एवं वा संचेयतां नावचं स्यात्, अन्याभिसंधित्वात् । अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति । सत्यमेव तत्, किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मों भवतीति । संविद्रते च स्फुटमेवं सौगता:-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगतिकारण-1॥ मानन्तर्यकमबुद्धेरबुद्धित्वादेव न स्यात् । इष्यते चानन्तर्यकम् । अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीया. नामपि अवधेन योगः स्यात् यतः ते विदन्त्यार्हतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोयमिति संज्ञानमात्रेण सांख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण संचेतयतः कल्पाकारमपि बुद्धनामानं प्रत आनन्तर्यकं स्यात् । तथा मातापित्रहद्वधस्तूप-. भेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽन्नमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपाताधवद्यहेतुतया ग्राह्यौ । अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथा आत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायाहते शस्रोल्लम्बनामिजलप्रवेशादिभिः । तस्मादात्मनोऽपि अविधिवधोऽवयहेतुरिति यत्किश्चित् परग्रहणमपि इति । ५ एवं सति कचित् कचिद् भावत एव प्राणातिपाताचवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावचं हिंसा मारकस्येवेति । प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणः । ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावयम् । अप्रमत्तस्य तु आगमानुसारिणो न भवति ।
तस्मादेनःपदमेतद् वसुबन्धोरामिषगृद्धस्य गृध्रस्येवाप्रेक्षाकारिणः । अयं पुनरप्रसंग एव. मूढेनोपन्यस्त:-शिरोलुश्वनाथुपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसंग इति यतस्तत्राज्ञानाविप्रमादासंभवोऽत्यन्तमेव शासितरि । ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपो देशितम् । कुतोऽवयप्राप्तिरप्रमत्तस्येति । अन्नदानमपि श्रद्धाशक्त्याविगुणसमन्वितोऽ- .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org