________________
6.6.
[ ४०२९ पं०५
1
प्रमत्तो गुणवते पात्राय ददाति न्याय्यम्, साधूदेशेनाकृताकारिताननुमतं प्रहीताप्यागमानुवृत्त्या गृह्णाति, कुतस्तत्रावद्येन योगः १, अन्नदायिनो दानकाल एव च कर्मनिर्जरणादिफलाभिनिर्वृत्तेः । विषूचिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः । अज्ञानं विषूचिकायाः प्रमाद इति चेत् । ● दातुस्तत्र स्वान्नस्य दानकाल एव व्यक्तत्वात्, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि- मातुर्गर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोर्दुःखहेतुत्वादवयेन योग इति, न, तदभिमतमेव जैनानाम्, तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यंतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्त सकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पद्यते, तद्वघुत्सृष्टशरीरस्य वा व्यपगतासुनो दर्शनेन न तद्दुः खनिमित्तम॥ स्यापुण्यमापतति साधोः । द्रव्यमात्रवधे चागमानुसारिणो भिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनैकान्त इत्यन्याय्यम् । स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेपि अवद्येन योगः । कचित् परसुखोत्पादे पुण्यलेशो निर्जरा वा - विहितानुष्ठायिनः साधोः क्षुत्पिपासार्तस्याधाकर्मादिदानेन एषणाविशुद्धेन प्रासुकान्नपानदानेन वेति । यथोक्तम् - अभिदृष्टान्तसामर्थ्यात् वध्योपि अवद्येन, वधक्रियासंबन्धाद्धन्तुषत् । यथा प्रभिः पूर्व स्वाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसंबन्धिनी प्राकृ तावद् वभ्यमेवावद्येन योजयति "कर्मस्था च भिदेः क्रिया" इति वचनात् यथा भिनत्ति कुसूलं देवदत इत्येवं इन्ति प्राणिनमिति । तदेतदसदिति । अनया क्रियया कर्तृसमवायिन्या कुसूलबिदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगतया इननक्रियया प्राणिवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदद्दन खभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः । अबुद्धिपूर्वकता व प्रमचता । तत्र कः प्रसङ्गो वध्यस्याधर्मेण १ । वधकसमवायिनी च हननक्रिया कर्तृफलदायिन्येव । प्रमत्तस्याध्यवसायो बन्धहेतुः । न च बध्यस्यात्महनने प्रमत्तताध्यवसायः । दृष्टान्तधर्मी चानेकधर्मा, तत्र कलिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया # दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः । विकल्पसमा चेयं जातिपन्यस्ता वसुबन्धुवैषैयेन स्वाश्रयदाहित्वमग्नेर्विशेषधमस्ति । न तु वधक्रियायाः स्वाभयेऽवद्ययोग इष्टः, तस्मान्नाभिदृष्टान्तात् साध्यसिद्धिरिति । एतेन एतदपि प्रत्युक्तम्- 'परेण च कारयतो नाधर्मप्रसङ्गः । नहि अभिमन्येन स्पर्शयम् प्रयोजयिता दाते' इति । यदप्यभिहितम् - 'अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः' इति । इष्टमेवैतत् । यतो येषां ● जीवानां काष्ठादि शरीरं तदा चाव्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा । यथोक्तम्- 'न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति । एतदप्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याभिरुदाहृतः । प्रयोगस्तु - अजानानस्य प्राणवधक्रिया अबद्यहेतुः, प्रमत्तव्यापारनिर्वृत्तत्वात्, तृतीयविकल्पप्राणदधक्रियावदिति । randuर्न भवति स प्रमत्तव्यापारनिर्वृत्तोपि न भवति यथा प्रथमविकल्प इति । यच्चाभयोक्तम्- खरसभरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्कान्तिः
1
For Private & Personal Use Only
15
20
38
ज्ञानबिन्दुप्रकरणस्य
Jain Education International
Me
www.jainelibrary.org