________________
पृ०२९ पं०५.]
टिप्पणानि । खयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य । किं तर्हि प्रयन करोति । अनागतस्य क्षणस्योत्पत्तिं प्रतिबध्नातीति । एतदप्यत्यन्तमयुक्तम् - अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः ?, असत्त्वरूपत्वात् खरशृङ्गस्येव । अतो नाभावः कर्तुं शक्यः । प्रतिबन्धाप्रतिबन्धौ च भावविषयौ । स्मर्तव्यं च प्राणातिपातलक्षणं स्वं सौगतेन - प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुः ।। न चाऽभावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति । वैनसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभात् अङ्करादिवत्, हेतुमत्त्वात् , तर्हि किसलयादिवद् बिनाशोपि विनाशवानित्यनिष्टप्रसंगः । यदा विनाशशब्देन अवस्थान्तरपरिणतिर्वस्तुनोऽमिधीयते तदा किमनिष्टम् ? । अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् । एवमपि न विनाशस्य विनाशे किश्चित् कारणमुपलभामहे । प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः. किमसन्नुत नित्य इति । असत्त्वे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः । अथ नित्यो विनाशः; कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् । यच्चोक्तं- कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते नत्वन्यस्यात्मनोऽभावाद् इति । तदप्यसमीचीनम् । यत एकस्थितवस्तुनिबन्धनाः सर्वेप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः । स चैकः स्थितश्वात्मा । सति तस्मिन् पुरुषार्थप्रवृत्तिप्रतिपत्तिरिति । ननु चानुभवस्मरणादयः स्कन्धमात्रे " विज्ञानमात्रतायां वा न विरुद्धाः । तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपन्नमिति । तन्न, परमार्थतस्तस्यासत्त्वात् । न चासत्यात्मनि तत्प्रणीतमाणातिपातलक्षणविषयावधारणं शक्यं कर्तुम् । सश्चिन्त्य परस्याभ्रान्तिमारणमिति भिनाः सञ्चेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः- किं संचेतयितुः, अथ यस्य परविज्ञानमुभयस्याभ्रान्तिा, अथ येन मारित इति ? । सर्वथा गृहीतशरणत्रया अप्यशरणा. एव सौगताः इत्येवं विचार्यमाणं सुगतशासनं निस्सारत्वात् न युक्ति क्षमत इति ।"
तत्त्वार्थ. टी. ७.८ "प्रमादः सकषायत्वं, तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगः । तस्मात् प्रमत्तयोगात् । इन्द्रियादयो दशप्राणाः, तेषां यथासंभवं व्यपरोपणं वियोगकरणं हिंसेत्यभिधीयते । सा प्राणिनो दुःखहेतुत्वादधर्महेतुः । प्रमत्तयोगादिति विशेषणं केवलं प्राण-. व्यपरोपणं नाधर्माय इति ज्ञापनार्थम् । उक्तं च- "वियोजयति चासुभिर्न च वषेन . संयुज्यते” इति । उक्तं च
"उच्चालिदम्मि पादे .................." [ओघनि० ७४८,९]
"मुच्छा परिग्गहो त्ति य अज्झप्पपमाणदो भणिदो ॥" । ननु च प्राणव्यपरोपणाभावेपि प्रमत्तयोगमात्रादेव हिंसेष्यते - उक्तं च
"मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा ।।
पयदस्स नत्थि बन्धो हिंसामित्तेण समिदस्स ॥" [प्रवच० ३.१७] इति । नैष दोषः, अत्रापि प्राणव्यपरोपणमस्ति भावलक्षणम् । तथा चोक्तम् -
"स्वयमेवात्मनाऽऽत्मानं हिनस्त्यात्मा प्रमादवान् । पूर्व प्राण्यन्तराणां तु पश्चात् स्याद्वा न वा वधः ॥" इति" - सर्वार्थ ० ५.१३।।
सा०१२ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org