Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 317
________________ 10 "आयुष्माथ विज्ञानं यदा कायाद् व्रजन्त्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ||" इति । आईताः पुनरबुद्धिपूर्वकमसंचिन्त्यापि कृतं प्राणातिपातं प्रतिजानते । अबुद्धिपूर्वादपि प्राणबधात् कर्तुरधर्मो यथाऽग्निस्पर्शाद् दाहः । तेषां चैवमभ्युपयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः । साधुशिरोलुनने कष्टतपोदेशने च शास्तुः क्रुद्धस्येवाधर्म1 प्रसङ्गः । विषूचिकामरणे वान्नदायिनः प्राणवधः । मातृगर्भस्थयोश्चान्योन्यदुःखनिमित्तत्वात् पापयोगः । वध्यस्यापि च वधक्रियासंबन्धात् अग्निना स्वाश्रयदाहवदधर्मप्रसङ्गः । परेण च कारयतो नाधर्मप्रसङ्गः । न हि अभिमन्येन स्पर्शयन् प्रयोजयिता दह्यते । अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः । न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसंभवान्नाबुद्धिपूर्वकं प्राणातिपातावथमस्तीति । එද ज्ञान बिन्दुप्रकरणस्य [ १०२९ पं० ५ च । अभ्रान्तस्यापि द्विविधम् - आत्मनः परस्य चेति । अतो विशेषणत्रयमुपादीयते । एतदुक्तं भवति - यदि 'भारयिष्यामि एनम्' इति संज्ञाय परं मारयति, तमेव मारयति नान्यं भ्रमित्वा । इयत्ता प्राणातिपातो भवति । यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो बेति सोप अवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्तु इति कृतमेवानेन त्यागचित्तं न भवतीति । ततश्चासंचिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः । प्राण वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्धवृत्तित्वात् तमतिपातयति विनाशयति जातस्य स्वरससन्निरोधादनागतस्योत्पत्तिं प्रतिबध्नातीति । जीवितेन्द्रियं वा प्राणाः । कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते । न त्वन्यस्य, आत्मनोऽभावात् । न ह्यात्मनः किश्चित् प्रतिपादकं प्रमाणमस्ति । अन्यस्त्वाह 1 अत्रोच्यते जैनैः - प्राणातिपाताद्यवद्येन प्रमत्त एव युज्यते । प्रमत्तश्च नियमेन रागद्वेषमोहवृत्तिः । प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् । कषायग्रहणेन मोहनीय कर्माशो मिथ्यादर्शनमपि संशयिताभिप्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियात्रवप्रमादेष्वप्यन्वयिनौ । निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभाव:, तदाकुलितचित्तो मूढ इत्युच्यते । रागद्वेषमोहाचात्मनः परिणाम विशेषाः प्राणातिपाताद्यवद्यहेतवः सर्वे24 र्मोक्षवाविभिरविगानेनाभ्युपेयन्ते । सिद्धान्तविहितविधिना च परित्यागाकरणं शरीरादेर्ममत्वीकृतस्याविरतिः अनिवृत्तिरात्मनः परिणतिविशेषः । साऽपि प्राणातिपातावयहेतुतया निर्दिष्टा भगवता भगवत्यादिषु । अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यजन्ते भावतः तावदपि भल्लितोमरकर्णिका धनुर्जीवा स्नायुशरवाजकी चकशलाकाद्याकारेण परिणतानि प्राणिनां परिताप" मवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुरवद्येन योगमापादयन्ति । प्रतीतं चैतल्लोके - यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणपरित्यजतः । न चानयैव युक्त्यावद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपखिनामुपकारकत्वात् प्रसज्यन्ते, नैतदेव 20 १ भगवती० श० ५. उ० ६ । श० १६. उ० १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350