Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 320
________________ पृ०२९ पं०५.] टिप्पणानि । खयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य । किं तर्हि प्रयन करोति । अनागतस्य क्षणस्योत्पत्तिं प्रतिबध्नातीति । एतदप्यत्यन्तमयुक्तम् - अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः ?, असत्त्वरूपत्वात् खरशृङ्गस्येव । अतो नाभावः कर्तुं शक्यः । प्रतिबन्धाप्रतिबन्धौ च भावविषयौ । स्मर्तव्यं च प्राणातिपातलक्षणं स्वं सौगतेन - प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुः ।। न चाऽभावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति । वैनसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभात् अङ्करादिवत्, हेतुमत्त्वात् , तर्हि किसलयादिवद् बिनाशोपि विनाशवानित्यनिष्टप्रसंगः । यदा विनाशशब्देन अवस्थान्तरपरिणतिर्वस्तुनोऽमिधीयते तदा किमनिष्टम् ? । अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् । एवमपि न विनाशस्य विनाशे किश्चित् कारणमुपलभामहे । प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः. किमसन्नुत नित्य इति । असत्त्वे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः । अथ नित्यो विनाशः; कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् । यच्चोक्तं- कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते नत्वन्यस्यात्मनोऽभावाद् इति । तदप्यसमीचीनम् । यत एकस्थितवस्तुनिबन्धनाः सर्वेप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः । स चैकः स्थितश्वात्मा । सति तस्मिन् पुरुषार्थप्रवृत्तिप्रतिपत्तिरिति । ननु चानुभवस्मरणादयः स्कन्धमात्रे " विज्ञानमात्रतायां वा न विरुद्धाः । तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपन्नमिति । तन्न, परमार्थतस्तस्यासत्त्वात् । न चासत्यात्मनि तत्प्रणीतमाणातिपातलक्षणविषयावधारणं शक्यं कर्तुम् । सश्चिन्त्य परस्याभ्रान्तिमारणमिति भिनाः सञ्चेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः- किं संचेतयितुः, अथ यस्य परविज्ञानमुभयस्याभ्रान्तिा, अथ येन मारित इति ? । सर्वथा गृहीतशरणत्रया अप्यशरणा. एव सौगताः इत्येवं विचार्यमाणं सुगतशासनं निस्सारत्वात् न युक्ति क्षमत इति ।" तत्त्वार्थ. टी. ७.८ "प्रमादः सकषायत्वं, तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगः । तस्मात् प्रमत्तयोगात् । इन्द्रियादयो दशप्राणाः, तेषां यथासंभवं व्यपरोपणं वियोगकरणं हिंसेत्यभिधीयते । सा प्राणिनो दुःखहेतुत्वादधर्महेतुः । प्रमत्तयोगादिति विशेषणं केवलं प्राण-. व्यपरोपणं नाधर्माय इति ज्ञापनार्थम् । उक्तं च- "वियोजयति चासुभिर्न च वषेन . संयुज्यते” इति । उक्तं च "उच्चालिदम्मि पादे .................." [ओघनि० ७४८,९] "मुच्छा परिग्गहो त्ति य अज्झप्पपमाणदो भणिदो ॥" । ननु च प्राणव्यपरोपणाभावेपि प्रमत्तयोगमात्रादेव हिंसेष्यते - उक्तं च "मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा ।। पयदस्स नत्थि बन्धो हिंसामित्तेण समिदस्स ॥" [प्रवच० ३.१७] इति । नैष दोषः, अत्रापि प्राणव्यपरोपणमस्ति भावलक्षणम् । तथा चोक्तम् - "स्वयमेवात्मनाऽऽत्मानं हिनस्त्यात्मा प्रमादवान् । पूर्व प्राण्यन्तराणां तु पश्चात् स्याद्वा न वा वधः ॥" इति" - सर्वार्थ ० ५.१३।। सा०१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350