Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 345
________________ 5 ११४ ज्ञान बिन्दुप्रकरणस्य [ पृ०१२२. पं० २कामत्वेन प्रयोजनाभावेन केवलं लीलयैव जगतः सृष्टिरित्यादि प्रतिपादयद्भिर्विरोधं च मन्यमाना हिरण्यगर्भ एको ब्रह्मप्रतिबिम्बो मुख्यो जीवः । अन्ये तु तत्प्रतिबिम्बभूताश्चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पाः जीवाभासाः संसारादिभाज इति सविशेषानेकशरीरैकजीववादमातिष्ठन्ते । अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना एक एव जीवोऽविशेषेण सर्वं शरीरमधितिष्ठति । न चैवं शरीरावयवभेद इव शरीरभेदेऽपि परस्परसुखाद्यनुसन्धानप्रसङ्गः । जन्मान्तरीयसुखाद्यनुसन्धानादर्शनेन शरीरभेदस्य तदननुसन्धानप्रयोजकत्व क्लृप्तेः । योगिनस्तु कायव्यूहसुखाद्यनुसन्धानं व्यवहितार्थप्रणवद्योगप्रभावनिबन्धनमिति न " तदुदाहरणमिति अविशेषाने कशरीरैकजीववादं रोचयन्ते ।” सिद्धान्तलेश पृ० १२३-१२७ । अद्वैतसिद्धि० पृ० ४१२ | सिद्धान्तबिन्दु - पृ० २२७,२३४ । [ पृ० १२२. पं० २. ] 'शब्दस्य त्वपरोक्ष' - " यद्यपि मिथ्यारूपो बन्धो ज्ञानबाध्यः, तथापि बन्धस्यापरोक्षत्वात् न परोक्षरूपेण वाक्यार्थज्ञानेन स बाध्यते, रजवादावपरोक्षसर्पप्रतीत वर्तमानायां 'नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशजनितपरोक्षसर्पविपरीतज्ञानमात्रेण " भयानिवृत्तिदर्शनात् । आप्तोपदेशस्य तु भयनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्ष निमित्तप्रवृत्तिहेतुत्वेन । तथाहि - रज्जुसर्पदर्शनभयात् परावृत्तः पुरुषो 'नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशेन तद्वस्तुयाथात्म्यदर्शने प्रवृत्तस्तदेव प्रत्यक्षेण दृष्ट्वा भयान्निवर्तते । न च शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तम् तस्य अनिन्द्रियत्वात् । ज्ञानसामग्रीष्विन्द्रियाण्येव परोक्षसाधनानि । न चास्यानभिसंहितफल कर्मानुष्ठान मृदितकषायस्य श्रवणमनननिदिध्यासन विमुखीकृत" बाह्यविषयस्य पुरुषस्य वाक्यमेत्रापरोक्षज्ञानं जनयति, निवृत्त प्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्री विशेषाणामिन्द्रियादीनां स्वविषयनियमातिक्रमादर्शनेन तदयोगात् ।” श्रीभाष्य पृ० १४७ । [ पृ० १२५ पं० २ ]. 'एतच्च दशमस्त्वमसि' - नैष्क० पृ० १४८ । पचदशी प्र० ७ का० २२ तः । " [ पृ०१३३. पं० २] 'इदमिदानीं निरूप्यते' - अस्मिन् विषये सन्मतिटीकागतं विस्तृतं [पृ० ५९७ टि० २] टिप्पणं द्रष्टव्यम् । - [ ४०९३३. पं० ६ '. 'नन्दिवृत्तौ ' - ' ' केचन सिद्धसेनाचार्यादयो 'भणति' ब्रुवते किमित्याह - 'युगपद्' एकस्मिन्काले 'केवली' केवलज्ञानवान् न त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात् ' नियमेन " - नन्दी० म० पृ० १३४ B [ ४०१३५. पं० २ . 'सम्मतिगाथा' - एता गाथा प्रन्थकारोऽभयदेववृत्तिमनुसृत्यैव प्रायशो व्याख्यातवानिति तुलनां जिज्ञासुभिरभयदेवीया वृत्तिर्द्रष्टव्या । [ पृ० १३७ पं० ५] 'केचिञ्जिनभद्रानुयायिनः' - Jain Education International " भणियं पिय पन्नत्ती - पनवणाईसु जह जिणो समयं । जाइन विपास तं अणुरयणप्पभाईणि ।। ३११२ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350