Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 343
________________ ११२ ज्ञानबिन्दुप्रकरणस्य [पृ०९२ . पं०६[पृ०९२ पं० ६] 'मीमांसकैश्च "न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवृत्तिनी । धुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना ॥ २१९ ॥ सा च पट्वी भवत्येव महातेजःप्रकाशिते । भन्दप्रकाशिते मन्दा घटादावपि सर्वदा ॥ २२०॥ एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् ।" श्लोक शब्दनि । मीमांसाद. १.१.१७ । शाबर० १.१.१७ । "व्यभिचारिणापि लिङ्गेन साध्यवति पक्षे अनुमितिप्रभादर्शनात् । ध्वनिधर्महस्वत्वदीर्घत्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभिर्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति 'मीमांसकैरभ्युपगमात् गन्धप्रागभावावच्छिन्ने घटे तात्त्विकव्यात्यादिमतापि पृथिवीत्वेन अतात्त्विकगन्धानुमितिदर्शनात् प्रतिबिम्बेन च बिम्बानुमितिदर्शनात्" अद्वैत• पृ० ३६५ । [पृ० १३. पं० ५. संमतिवृत्तौ- पृ. २७२-८० । पृ० २८५-९६। [४० ९५. पं० ]. 'एतेन' - चित्सुखाचार्य-मधुसूदनसरखतीप्रभृतिभिर्वर्णितायाः मक्ष मानस्य अविद्यानाशकत्वप्रक्रियायाः ग्रन्थकारेण निरसनमितः प्रारब्धम् । .' "एवं हि न्यायसुधायामाराध्यपादैरुपपादितं संसारमूलकारणभूताऽविद्या यद्यप्येकैव तथापि तस्याः सन्त्येव बहव आकाराः । तत्रैकः प्रपञ्चस्य परमार्थसत्त्वभ्रमहेतुः, द्वितीया अर्थक्रियासमर्थवस्तुकल्पकः, तृतीयस्त्वपरोक्षप्रतिमासविषयाकारकल्पकः । तत्राद्वैतसत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पकाकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानमायाकार: तत्त्वसाक्षात्कारेण विनीयते अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्त" स्याऽनिवृत्तः समाध्यवस्थायां तिरोहितः अन्यदा देहाभासजगदाभासहेतुतयानुवर्तते प्रारब्धकर्मफलोपभोगावसाने तु निवर्त्तते...." चित्सुखी पृ० ३९३ । "तुच्छाऽनिर्वचनीया च वास्तवी चेत्यसौ त्रिधा । ज्ञेया माया त्रिभिर्योधैः श्रौतगौक्तिकलौकिकैः ॥१३०॥" पञ्चदशी चित्र. .. १३० । अद्वैत. पृ० ६१२, ८९१ । अद्वैतरत्नरक्षण पृ. ४५ । [ पृ०९६. पं०] 'तस्याभिध्यानाद्' - "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद् योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः ।" श्वेता. १.१.। __ "तस्य परगात्मनोऽभिध्यानात् कथं योजनान्जीवानां परमात्मसंयोजनात् तस्वभावाद् .. अहं ब्रह्मास्मि इति भूयश्च असकृदन्ते प्रारब्धकर्मान्ते यद्वा स्वात्मज्ञाननिष्पत्तिः अन्तः ॥ तस्मिन् स्वात्मज्ञानोदयवेलायां विश्वमायानिवृत्तिः सुखदुःखमोहात्मकाशेषप्रपश्वरूपमायानिवृत्तिः" - शाङ्करभाष्य । संक्षेपशा० ४.४६ । । [ ५०९८.. पं०1] 'दृष्टिसृष्टि' -. "अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिबिम्बचैतन्यं जीव इति वा अज्ञानानुपहितं शुद्धचैतन्यमीश्वरः अज्ञानोपहितं जीव इति वा मुख्यो वेदान्तसिद्धान्तः एकजीववादाख्यः । इभमेव दृष्टिसृष्टिवादमाचक्षते अस्मिंश्च पक्षे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350