Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh
View full book text
________________
42
ज्ञानबिन्दुप्रकरणस्य [पृ०२९५०५ - सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ । पिहिआसवस्स दंतस्स पावकम्मं न बंधइ ॥ ९॥" दश० अ० ४ । "सव्वे जीवा वि इच्छन्ति जीविउं न मरिजिउं। तम्हा पाणिवहं घोरं निग्गन्था वजयंति णं ॥११॥" दश० अ० ५। "हिंसाए पडिवक्खो होइ अहिंसा चउन्विहा सा उ।
दव्वे भावे अ तहा अहिंसजीवाइवाओत्ति ॥" दश• नि. गा० ४५ । ___"सत्रायं भङ्गकभावार्थः- द्रव्यतो भावतश्च इति - जहा केइ पुरिसे मिअवहपरिणामपरिगए मिश्र पासित्ता आयन्नाइड्डियकोदंडजीवे सरं गिसिरिज्जा, से अमिए तेण सरेण विखे भए सिया, एसा दव्वओ हिंसा भावओ वि । या पुनर्द्रव्यतो न भावतः सा खलु ईर्यादि॥ समितस्य साधोः कारणे गच्छत इति - उक्तं च-उचालिअम्मि......."इत्यादि । या पुनर्भावतो न द्रव्यतः सेयम् - जहा केवि पुरिसे मंदमंदपगासप्पदेसे संठियं ईसिवलियकायं रजुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकट्ठियासिपत्ते दुअं दुअं छिंदिज्जा, एसा भावओ हिंसा न दव्वओ। चरमभंगस्तु शून्य इति एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति ॥” दशवै. हा• पृ. २४ । भगवती० १.८ । ३.३ । ५.६ । ७.२,१० । ८.४ । १८.३,८ । दश० ० पृ. २० । पृ. १४।
__ "मरदु वो जीयदु जीवो अयदाचारस्स णिच्छिदा हिंसा।
पयदस्स नत्थि बन्धो हिंसामित्तेण समिदस्स ॥" प्रवच• ३.१७॥ "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" - तत्त्वार्थ० ७.८। "प्रमत्तो यः कायवानोयोगैः प्राणव्यपरोपणं करोति सा हिंसा" - तत्त्वा० भा० ५.८।
"प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादयति । प्रमत्तो हि आप्तप्रणीतागमनिरपेक्षो "दूरोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुल: प्राणिप्राणापहारमवश्यंतया करोति । द्रव्यभावभेदद्वयानुपातिनी च हिंसा । तत्र कदाचित् द्रव्यतः प्राणातिपातः न भावतः । स्वपरिणामनिमित्ते च हिंसाहिंसे । परमार्थतः परिणामो मलीमसोऽवदातश्च । परस्तु किश्चिन्निमित्तमाश्रित्य कारणीभवति हिंसायाः। स च द्रव्यतो व्यापनो न ध्यापन्न इति नातीवोपयोगिनी चिन्ता। . तत्र यदा ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः काश्चिद्धम्या क्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुं असमर्थः पिपीलिकादेरुपरि पादं न्यस्यति, उत्क्रान्तप्राणश्च प्राणी भवति तदास्य द्रव्यप्राणव्यरोपणमात्रादत्यन्तशुद्धाशयस्य वाक्यपरिजिहीर्षाविमलचेतसो नास्ति हिंसकत्वम् । . कदाचित् भावतः प्राणातिपातः, न द्रव्यतः । कषायादिप्रमादवशवर्तिनः खलु मृगयोराकष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुदिश्यैणकं विसर्जितशिलीमुखस्य शरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वात् अकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणेषु भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतहढायुष्यकर्मशेषादपसृतो मृगः पुरुषाकाराब,
चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकम् । तथा तस्यानवदातभावस्य जिघांसोउत्क्रान्तजन्तु"प्राणकलापस्य मावतो द्रव्यतश्च हिंसा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350