Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh
View full book text
________________
पृ० २९ पं० ५.]
टिप्पणानि ।
एवमुदिते विकल्पत्रये प्रमत्तयोगत्वं द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं, न प्रथमस्येति
स्यादेतत्-अस्तु तृतीयविकल्पे प्राणातिपातः, संपूर्णलक्षणत्वात् । मार्यमाणः प्राणी यदि भवति, हन्तु प्राणीति यदि विज्ञानं जातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् सर्वं चैतदुपपन्नं तृतीये । द्वितीयविकल्पे तु नास्त्येतत् समस्तम् अतः कथं तत्र हिंसकत्वम् ? । एतदेव च प्राणातिपातलक्षणमपरं स्पष्टतरं प्रपचितम् -
८५
“प्राणातिपातः संचिन्त्य परस्याभ्रान्तमारणम् ।" [ अभिघ• ४.७३ ] इति द्विविधं मारणं संचिन्त्यासंचिन्त्य च । संचिन्त्यापि द्विविधम् - भ्रान्तस्याभ्रान्तस्य
१. " संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमिवेति । न भ्रान्त्याऽन्यं मारयति इत्यर्थः । क्षणिकेषु स्कन्धेष्विति । स्वरसेनैव विनश्वराणां स्कन्धानां कथं अन्येनैषां निरोधः क्रियत इत्यभिप्रायः । प्राणो नाम वायुः । कायचित्तसंनिश्रितो वर्तत इति । कथं चित्तसंनिश्रितो वायुः प्रवर्तते ? । चित्तप्रतिबद्धवृत्तित्वात् । तथाहि निरोधासंशिसमापत्तिसमापनस्य मृतस्य च न प्रवर्तते । शालेप्युक्तम् - " य इमे आश्वासप्रश्वासाः किं ते कायसंनिधिता वर्तन्त इति वक्तव्यम् ?, चित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ? नैव कायश्चित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ४ कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ? । आह-कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् इति विस्तरः ।" तमपि पातयतीति । तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य खरसनिरोधाद् अनागतस्योत्पत्तिं प्रतिबध्नन् निरोषयतीस्युच्यते । यथा प्रदीपं निरोधयति, घण्टाखनं वा । क्षणिकमपि सन्तम् कथं च स निरोधयति ? । अनागतस्योत्पत्तिप्रतिबन्धात् । जीवितेन्द्रियं वा प्राण इति । चित्तविप्रयुक्तस्वभावं एनं दर्शयति ।
A.
कस्य तज्जीवितम् ? । यस्तवभाषाम्मृत इति । यः प्राणी जीवितस्याभावान्मृतो भवति । स बौद्धानां माति नैरात्म्यादिखात् । अत एवं पृच्छति । कस्येति षष्ठीम् । पुरुवादे पुद्गलप्रतिषेधप्रकरणे । असत्यात्मनि कस्यैवं स्मृतिः । किमर्थैषा षष्ठीत्यत्र प्रदेशे चिन्तयिष्यामि । आस्तां तावदेतत् सामान्यासिकम् इत्यभिप्रायः । तस्मात् सेन्द्रियः कायो जीवतीति । सेन्द्रियस्यैव कायस्य तज्जीवितम् । नात्मन इति दर्शयति । स एव वानिन्द्रियो मृत इति ।
अबुद्धिपूर्वादिति विस्तरः । असंचिन्त्यकृताद् अपि प्राणातिपातात् कर्तुरघमों यथा अभिसंस्पर्शादबुद्धिपूर्वात् असंचिन्त्यकृताद् दाह इति निर्मन्या नग्नाटकाः । तेषां निर्मन्थानामेवंवादिनामबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसंग: । पापप्रसंग इत्यर्थः । अभिदृष्टान्तात् । निर्मन्यशिरोलोचने च । निर्मन्थशिरः केशोत्पाटने दुःखोत्पादनबुद्ध्यभावेऽप्यधर्मप्रसंगः। अभिदाहवत् । कष्टतपोदेशने व । निर्मन्यशास्तुरधर्मप्रसंगो बुद्ध्यनपेक्षायाम् । परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा । तद्विषूचिकामरणे च । निर्प्रन्यानां विषूचिकया अजीरणेन मरणे । दातुः - अजदातुः । अधर्मप्रसङ्गः । अक्षदानेन मरणकारणात् । अवुद्धिपूर्वोऽपि हि प्राणिवधः कारणमधर्मस्येति । मातृगर्भस्थयोश्च । मातुर्गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वात् अधर्मप्रसङ्गः । तत एवाभिदृष्टान्तात् । वध्यस्यापि तत्क्रियासंबन्धात् । प्राणातिपातक्रियासंबन्धात् । अधर्म प्रसङ्गः । वध्ये हि सति प्राणातिपातक्रिया बधकस्य भवति । अमिखाश्रयदाहवत् । अभिर्हि न केवलमन्यजनं दहति । किं तर्हि ? । खाश्रयमपि इन्धनं दहतीति । तद्वत् । न हिं तेषां वेतनाविशेषोऽपेक्ष्यते । कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः । परेणामि स्पर्शयतः स्पर्शयितुनादाहबत् । आमेयधर्माभ्युपगमात् । अचेतनानां च काष्ठादीनाम् । काष्ठळोष्ठवंशादीनाम् । गृहपाते तत्रान्तः स्थितानां प्राणिनां बधात् । पापप्रसङ्गः । नहि बुद्धिविशेषः प्रमाणीक्रियते । न वा दृष्टान्तमात्रादहेतुकाव सिद्धिरस्यार्थस्येति ।" स्फुटार्था० पृ० ४०४ पं० ३१ ।
1
"अन्यत्र संशाविभ्रमादिति । यदि देवदत्तद्रव्यं हरामीत्यभिप्रायमाणो यज्ञदत्तद्रव्यं हरति नादत्तादानमिति अभिप्रायः ।” – स्फुटार्था० पृ० ४०६. पं० ५ ।
" प्राणातिपातवदिति । यथा देवदत्तं मारयामीत्यभिप्रायेण यशदतं मारयतो न प्राणातिपातो भवति तद्वत् । इहान्यस्मिन् वस्तुनि प्रयोगोऽभिप्रेतोऽन्यच्च वस्तु परिभुक्तमिति न स्यात् काममिथ्याचार इत्यपरे ।" स्फुटार्थाο पृ० ४०६. पं० १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f69ff54996d87ce8c80f33ad8ad302513978f9f3f54931d1789f5515bd49aca6.jpg)
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350