Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 313
________________ ८२ ज्ञानबिन्दुप्रकरणस्य [पृ०२९५०५पुत्र अपत्यं पिता जनकः' 'समारभ्य' व्यापाद्य आहारार्थ कस्याश्चित्तथाविधायामापदि तदुद्धरणार्थ अरक्तद्विष्टः 'असंयतो' गृहस्थस्तत्पिशितं भुञ्जानोपि, पशब्दस्यापिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोपीत्यर्थः । तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यत इति । यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्त• विष्टमनसः कर्मबन्धो न भवति, तथान्यस्यापि अरक्तद्विष्टान्तःकरणस्य प्राणिवघे सत्यपि न कर्मबन्धो भवतीति ॥ २८॥ सांप्रतमेतडूषणायाह - मणसा जे पउस्सन्ति चित्तं तेसिं ण विजह । अणवञ्जमतहं तेसिं ण ते संवुडचारिणो ॥ २९ ॥ इच्चेयाहिं य दिट्ठीहि सातागारवणिस्सिया । सरणंति मन्नमाणा सेवती पावगं जणा ॥ ३०॥ जहा अस्साविणिं नावं जाइअंधो दुरूहिया। इच्छई पारमागंतुं अंतरा य विसीयई ॥ ३१॥ एवं तु समणा एगे मिच्छदिट्ठी अणारिया। संसारपारकंखी ते संसारं अणुपरियट्ठति ॥ ३२ ॥ ये हि कुतश्चिनिमित्तात् मनसा अन्तःकरणेन 'प्रदुष्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते । तदेवं यत्तैरभिहितम्-यथा केवलमनाप्रद्वेषेऽपि अनवचं कर्मोपचयाभाव इति तत् तेषां 'अतथ्यम्' असदाभिधायित्वं । यतो न ते संवृतचारिणो मनसोऽशुद्धत्वात् तथाहि - कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं यतः तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवति असति तु न भवति, तत् तस्य प्रधानं कारणमिति । ननु तस्यापि कायचेष्टारहितस्याकारणत्वमुक्तम् । सत्यम् , उक्तम् , अयुक्तं तु उक्तम् । यतो भवतैव एवं भावविशुद्ध्या निर्वाणमभिगच्छती'ति भणता मनस एवैकस्य प्राधान्यमभ्यधायी, तथान्यदपि अभिहितम् - "चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥" तथाऽन्यैरपि अभिहितम् - "मतिविभव ! नमस्ते यत् समत्वेऽपि पुंसाम् , परिणमसि शुभांशैः कल्मशांशैस्त्वमेव । नरकनगरवर्त्मप्रस्थिताः कष्टमेके, उपचितशुभशक्त्या सूर्यसम्भेदिनोऽन्ये ।" तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति । तथा ईर्यापयपि अपनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव । अथोपयुक्तो याति वतोऽप्रमत्तत्वादबन्धक एव । तथा चोक्तम् - "उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावजेज कुलिङ्गी मरेज तं जोगमासज ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350