Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 312
________________ पृ० २९५० ५.] टिप्पणानि । "प्राणी प्राणीज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥" किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव । भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह - 'पुट्ठोति' । तेन केवलमनोव्यापाररूपपरिझोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा 'स्पृष्टः' । ईषच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति । न तस्याधिको विपाकोऽस्ति । कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः । अत एव तस्य चयाभावोऽभिधीयते । न पुनरत्यन्ताभाव इति । एवं च कृत्वा तद् 'अव्यक्तम्' अपरिस्फुटम् । खुरद. धारणे । अव्यक्तमेव, स्पष्टविपाकानुभवाभावात् । तदेवमव्यक्तं सहावयेन- गर्भेण वर्तते तत्परिझोपचितादिकर्मेति ॥ २५ ॥ ननु यद्यनन्तरोक्तं चतुर्विध कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशकयाह संतिमे तउ आयाणा जेहिं कीरइ पावगं । अभिकम्मा य पेसा य मणसा अणुजाणिया ॥२६॥ 'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते स्वीक्रियते अमीभिः कर्म इत्यादानानि । एतदेव ॥ दर्शयति-यैरादानैः क्रियते' विधीयते, निष्पाद्यते 'पापकं' कल्मषं तानि चामूनि । तद्यथा'अभिक्रम्येति' आभिमुख्येन वध्यं प्राणिनं क्रान्त्वा-तद्धाताभिमुखं चित्तं विधाय, पत्र खत एव प्राणिनं व्यापादयति तदेकं कर्मादानम् । तथा, अपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्राणिव्यापादनं तहितीयं कर्मादानम् । तथा, अपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत् तृतीयं कर्मादानम् । परिज्ञोपचिदास्यायं भेदः - तत्र केवलं मनसा चिन्तनम्, इह त्वपरेण . व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ २६ ॥ ___ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते छिष्टाध्यषसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्र इति दर्शयितुमाह - एते उ तउ आयाणा जेहिं कीरइ पावर्ग । एवं भावविसोहीए निव्वाणमभिगच्छति ॥ २७॥ __ तुरवधारणे । एतान्येव पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाव्यवसायसव्यपेक्षैः पापकं कर्म उपचीयते इति । एवं च स्थिते यत्र कतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथा भावविशुद्ध्या अरक्तद्विष्टबुद्ध्या प्रवर्तमानस्य सत्यपि प्राणाविपाते केवलेन मनसा, कायेन वा मनोभिसन्धिरहितेन, उभयेन वा विशुख्युटेन कर्मोपचयः । तदभावाच निर्वाणं सर्वद्वन्द्वोपरतिस्वभावं अभिगच्छवि भाभिमुल्येन . प्रामोतीति॥२७॥ भावशुख्या प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह - पुत्तं पिया समारम्भ आहारेज असंजए । मुंजमाणो य मेहावी कम्मणा नोवलिप्पड ॥ २८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350