________________
पृ० २९५० ५.]
टिप्पणानि । "प्राणी प्राणीज्ञानं घातकचित्तं च तद्गता चेष्टा ।
प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥" किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव । भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह - 'पुट्ठोति' । तेन केवलमनोव्यापाररूपपरिझोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा 'स्पृष्टः' । ईषच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति । न तस्याधिको विपाकोऽस्ति । कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः । अत एव तस्य चयाभावोऽभिधीयते । न पुनरत्यन्ताभाव इति । एवं च कृत्वा तद् 'अव्यक्तम्' अपरिस्फुटम् । खुरद. धारणे । अव्यक्तमेव, स्पष्टविपाकानुभवाभावात् । तदेवमव्यक्तं सहावयेन- गर्भेण वर्तते तत्परिझोपचितादिकर्मेति ॥ २५ ॥
ननु यद्यनन्तरोक्तं चतुर्विध कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशकयाह
संतिमे तउ आयाणा जेहिं कीरइ पावगं ।
अभिकम्मा य पेसा य मणसा अणुजाणिया ॥२६॥ 'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते स्वीक्रियते अमीभिः कर्म इत्यादानानि । एतदेव ॥ दर्शयति-यैरादानैः क्रियते' विधीयते, निष्पाद्यते 'पापकं' कल्मषं तानि चामूनि । तद्यथा'अभिक्रम्येति' आभिमुख्येन वध्यं प्राणिनं क्रान्त्वा-तद्धाताभिमुखं चित्तं विधाय, पत्र खत एव प्राणिनं व्यापादयति तदेकं कर्मादानम् । तथा, अपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्राणिव्यापादनं तहितीयं कर्मादानम् । तथा, अपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत् तृतीयं कर्मादानम् । परिज्ञोपचिदास्यायं भेदः - तत्र केवलं मनसा चिन्तनम्, इह त्वपरेण . व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ २६ ॥ ___ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते छिष्टाध्यषसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्र इति दर्शयितुमाह -
एते उ तउ आयाणा जेहिं कीरइ पावर्ग ।
एवं भावविसोहीए निव्वाणमभिगच्छति ॥ २७॥ __ तुरवधारणे । एतान्येव पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाव्यवसायसव्यपेक्षैः पापकं कर्म उपचीयते इति । एवं च स्थिते यत्र कतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथा भावविशुद्ध्या अरक्तद्विष्टबुद्ध्या प्रवर्तमानस्य सत्यपि प्राणाविपाते केवलेन मनसा, कायेन वा मनोभिसन्धिरहितेन, उभयेन वा विशुख्युटेन कर्मोपचयः । तदभावाच निर्वाणं सर्वद्वन्द्वोपरतिस्वभावं अभिगच्छवि भाभिमुल्येन . प्रामोतीति॥२७॥ भावशुख्या प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह -
पुत्तं पिया समारम्भ आहारेज असंजए । मुंजमाणो य मेहावी कम्मणा नोवलिप्पड ॥ २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org