________________
शानबिन्दुप्रकरणस्य [पृ०२९ ६०५"कम्मं चयं न गच्छइ चउव्विहं भिक्खुसमयम्मि ॥" सूत्रकृ• नि० ३१। "कर्म चयं उपचयं चतुर्विधमपि न गच्छति भिक्षुसमये शाक्यागमे । चातुर्विध्यं तु फर्मणोऽविज्ञोपचितम् - अविज्ञानमविज्ञा तयोपचितम्, अनाभोगकृतमित्यर्थः । यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान कर्मोपचीयते । तथा, परिज्ञानं परिक्षा-केवलेन 'मनसा पर्यालोचनम् । तेनापि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति । तथा, ईरणमीर्या- गमनम् । तेन जनितमीर्याप्रत्ययम् । तदपि कर्म उपचयं न गच्छति प्राणिव्यापादनाभिसन्धेरभावादिति । तथा, स्थानान्तिकं - स्वभप्रत्ययं कर्म नोपचीयते यथा खमभोजने तृप्त्यभावः।" सूत्रकृ० टी० पृ० ११।
"साम्प्रतं यदुक्तं नियुक्तिकारेणोदेशकार्थाधिकारे - 'कर्म धयं न गच्छति चतुर्विध "भिक्षुसमये' इति तदधिकृत्याह
अहावरं पुरक्खायं किरियावाइदरिसणं ।।
कम्मचिंतापणट्ठाणं संसारस्स पवडणम् ॥ २४ ॥ 'अर्थ' त्यानन्तये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा'-पूर्वम् , आख्यातम् - कथितम् , किं पुनस्तदित्याह - 'क्रियावादिदर्शनम्' क्रियैव चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं ॥ शीलमेषां ते कियावादिनः, तेषां दर्शनम् - आगम:-क्रियावादिदर्शनम् । किंभूतास्ते क्रियावादिन इत्याह - कर्मणि- ज्ञानावरणादिके चिंता- पर्यालोचनम् – कर्मचिंता, तस्याः प्रनष्टाः अपगताः कर्मचिन्ताप्रनष्टाः । यतस्ते अविज्ञानाद्युपचितं चतुर्विध कर्मबन्धं नेच्छन्ति अतः कर्मचिन्ताप्रनष्टाः । तेषां चेदं दर्शनं संसारवर्धनमिति ॥ २४ ॥ यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह - __ जाणं काएणणाउट्टी अबुहो जं च हिंसति ।
पुट्ठो संवेदइ परं अवियत्तं खु सावजं ॥ २५ ॥ यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुट्टयनाकुट्टी । इदमुक्तं भवति-यो हि कोपादेनिमि
तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनभेद• नादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयो न भवतीत्यर्थः । तथा, अबुधः अजा
नानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान कर्मोपचय इति । अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा- 'चतुर्विधं कर्म नोपचीयते भिक्षुसमये' इति तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपातं शेष वीर्यापथस्वमान्ति. कभेदद्वयं च शब्देनोपात्तम् । . कथं तर्हि तेषां कर्मोपचयो भवति इति ? । उच्यते-यासौ हन्यमानः प्राणी भवति, इन्तुश्च यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मि इत्येवं च यदि बुद्धिः प्रादुरध्यात्, एतेषु च सत्सु यवि कायचेष्टा प्रवर्तते, तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति । एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चानां पदाना द्वात्रिंशका भवन्ति । तत्र प्रथमभने हिंसकोऽपरेवेकत्रिंशत्स्वहिंसकः । तथा चोक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org