Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 299
________________ T ज्ञानविन्दुप्रकरणस्य [ ५०२४ पं० ४ "इन्द्रियाणि च स्पर्शनादीनि मनश्च इन्द्रिय-मनांसि तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम् । इन्द्रिय- मनोद्वारेण यद्विज्ञानं जायत इत्यर्थः । तत् किम् ?, इत्याह- तद् भावश्रुतं श्रुतज्ञानमित्यर्थः । इन्द्रियमनोनिमित्तं च मतिज्ञानमपि भवति अतस्तव्यवच्छेदार्थमाह - श्रुतानुसारेण इति । श्रूयत इति श्रुतम् - द्रव्यश्रुतरूपं शब्द इत्यर्थः । स च सङ्केतविषयपरो* पदेशरूपः श्रुतग्रन्थात्मकचेह गृह्यते । तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्, नान्यत् । इदमुक्तं भवति - सङ्केतकालप्रवृत्तं श्रुतप्रन्थसम्बन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घट:' इत्याद्यन्तर्जल्पाकारमन्तः शब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यज्ज्ञानमुदेति तच्छ्रुतज्ञानमिति । तश्च कथं भूतम् ? इत्याह - निजकार्थोक्तिसमर्थमिति । निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटादिरर्थः तस्योक्तिः – परस्मै प्रतिपादनम्, तत्र समर्थ क्षमं - " निजकार्थोक्तिसमर्थम् । अयमिह भावार्थ: । शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति । तेन च परः प्रत्याय्यते इत्येवं निजकार्थोक्ति समर्थमिदं भवति अभिलाप्यवस्तुविषयमिति यावत् । स्वरूपविशेषणं चैतत् शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्ति सामर्थ्याव्यभिचारात् । 'मई सेसंति' शेषम् - इन्द्रियमनोनिमित्तमश्रुतानुसारेण यदवग्रहादिज्ञानं तत् मतिज्ञानमित्यर्थः । " विशेषा० टी० १०० । - [ पृ०२४ पं० ४ . ] 'तेन न' - "अत्राह कश्चित् - ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते शेषं तु मतिज्ञानं तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात् न पुनरीहापायावयः, तेषां शब्दोल्लेखसहितत्वात्, मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्ष'स्य नातिव्याप्तिदोषः, कथं च न मतिज्ञानस्याव्याप्तिप्रसंग: ? । अपरं च - - अङ्गानङ्गप्रवि'ष्टादिषु "अक्खर सन्नी सम्मं साईअं खलु सपज्जवसियं च" इत्यादिषु च श्रुतभेदेषु मतिॐ ज्ञानभेदस्वरूपाणामवग्रहेहादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात्, मतिज्ञानभेदानां चेहापायादीनां साभिलापत्वेन श्रुतज्ञानत्वप्राप्तेरुभयलक्षणसङ्कीर्णता दोषश्च स्यात् । अत्रोच्यते - यत् तावदुक्तम् - अवग्रह एव मतिज्ञानं स्यात् न त्वीहादयः, तेषां शब्दोल्लेखसहित्वात् । तदयुक्तम् । यतो यद्यपीहादयः साभिलापाः, तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् । अथावप्रहादयः श्रुतनिश्रिता एव सिद्धान्ते 23 प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न संगच्छते अतः कथं न तेषां श्रुतानुसारित्वम् ? । तदयुक्तम् । पूर्वं श्रुतपरिकर्मितमतेरे वैले समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति । यदपि युक्तितोपि चेत्याद्युक्तम् तदपि न समीचीनम् । सङ्केतकालाद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणापि विकल्पपरंपरापूर्वकविविध वचनप्रवृत्तिदर्शनात् । न हि • पूर्वप्रवृत्तसङ्केताः अधीतश्रुतमन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते एतच्छब्द वाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवंरूपं सङ्केतम्, तथाऽमुकस्मिन् प्रन्थे एतदित्थमभिहितमित्येवं श्रुतमन्थं चानुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः । यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहाइपायधारणानां सामस्त्येन मतिज्ञानत्वात् न मतिज्ञानलक्ष For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350