Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 302
________________ ०२८ पं० १. ] टिप्पणानि । "अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा - उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं - कारणं यस्याः सा औत्पत्तिकी । ननु सर्वस्या बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यते - उत्पत्तिरेव प्रयोजनमस्या इति ? । उच्यते - क्षयोपशमः सर्वबुद्धिसाधारणः ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्ध्यन्तराद्भेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धम्, तत्र व्यपदेशान्तरनिमित्तमत्र न किमपि विनयादिकं विद्यते केवलमेवमेव तथो - त्पत्तिरिति सैव साक्षान्निर्दिष्टा । तथा बिनयो - गुरुशुश्रूषा स प्रयोजनमस्या इति वैनयिकी । तथा, अनाचार्यकं कर्म, साचार्यकं शिल्पम्, अथवा कादाचित्कं शिल्पम्, सर्वकालिकं कर्मकर्मणो जाता कर्मजा ॥ तथा परिसमन्तान्नमनं परिणामः सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनमस्याः सा पारिणामिकी ।" नन्दी० म० पृ० १४४ ॥ "आसां बुद्धीनां विशेषार्थः कथानकादवसेयः” – नन्दी० म० पृ० १४५ । [ १०२६ पं० १० ] ' पुर्विव' - व्याख्या - "व्यवहारकालात् पूर्वं यथोक्तरूपेण श्रुतेन परिकर्मिता आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यत् साम्प्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तत् श्रुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनः अश्रुतनिश्रितम् तच्च औत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम्” – विशेषा० टी० गा० १६९ । ७१ [ पृ०२७. पं० ४ ] 'लब्धियौगपद्येऽपि ' - " द्विविधे मतिश्रुते तदावरणक्षयोपशमरूपलब्धितः, ॥ उपयोगच । तत्रेह लब्धितो ये मतिश्रुते ते एव समकालं भवतः । यस्त्वनयोरुपयोगः स युगपद् न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभाव्यात् क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् । नैवम् । इह तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः । श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारिज्ञानमभिधीयते तच्च अवग्रहेहादीनन्तरेण आकस्मिकं न भवति, अवग्रहादयश्ध 20 मतिरेव इति तत्पूर्वता श्रुतस्य न विरुध्यते ।” विशेषा० टी० गा० १०८ । - [ ४०२८ पं० १] 'धारणादिरहितानाम् ' - " इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यते तथा सूत्रे अनेकशोऽभिधानात् । संज्ञा च अभिलाष उच्यते यत उक्तम् आवश्यकटीकायाम्-आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः इति । अभिलाच 'ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवति' एवं शब्दार्थो - लेखानुविद्धः स्वपुष्टिनिमित्त भूतप्रतिनियतवस्तुप्राप्यध्यवसायः, स च श्रुतमेव तस्य शब्दार्थपर्यालोचनात्मकत्वात् । शब्दार्थपर्यालोचनात्मकत्वं च ' ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते' इत्येवमादीनां शब्दानामन्तर्जल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् । श्रुतस्य चैवंलक्षणत्वात् । शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्य अर्थस्य प्रतिपत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव ।" नन्दी० म० 20 पृ० १४० । Jain Education International " यद्यपि एकेन्द्रियाणां कारणवैकल्याद् द्रव्यश्रुतं नास्ति, तथापि स्वापाद्यवस्थायां साध्वादेरिवाशब्दकारणं अशब्दकार्यं च श्रुतावरणक्षयोपशममात्ररूपं भावश्रुतं केवलिदृष्टममीषां मन्तव्यम् । न हि स्वापाद्यवस्थायां साध्वादिः शब्दं न शृणोति न विकल्पयति इत्ये For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350