Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 300
________________ २०२४ ० ९ ] टिप्पणानि । णस्याऽव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव सामिलापज्ञानविशेषेषु भावात् न मुतमानलक्षणस्याऽतिव्याप्तिकृतो दोषः । अपरं चाङ्गाऽनङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव भुतमिति वक्ष्यमाणवचनात् प्रथमं शब्दाचवग्रहणकालेऽवमहादयः समुपजायन्ते, एते चाऽभुतानुसारित्वात् मतिज्ञानम्, यस्तु तेष्वङ्गाऽनङ्गप्रविष्टभुतभेदेषु श्रुतानुसारी ज्ञानविशेषः स भुतक्षानम् । ततश्चाङ्गाऽनङ्गप्रविष्टाविश्रुतभेदानां सामत्येन मतिज्ञानत्वाभावात् , ईहाविषु च। मतिभेदेषु भुतानुसारित्वाभावेन भुतज्ञानत्वासम्भवाद् नोभयलक्षणसङ्कीर्णतादोषोऽप्युपपद्यत इति सर्व सुस्थम् । न चेह मतिश्रुतयोः परमाणु-करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः प्रागिहेवोक्तम् - विशिष्टः कश्चिद् मतिविशेष एव श्रुतम्, पुरस्तादपि च वक्ष्यतेवल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम्, न च वल्कशुम्बयोः परमाणुकुलर. वदात्यन्तिको भेदः, किन्तु कारणकार्यभावकृत एष, स चेहापि विद्यते, मतेः कारणत्वेन, । भुतस्य तु कार्यत्वेनाऽभिधास्यमानत्वात् । न च कारणकार्ययोरैकान्तिको भेदः, कनककुण्ड लादिषु, मृत्पिण्डकुण्डादिषु च तथाऽदर्शनात् । तस्मादवप्रहापेक्षयाऽनभिलापत्वात्, ईहापपेक्षया तु सामिलापत्वात् साभिलापाऽनभिलापं मतिज्ञानम् अश्रुतानुसारि च, सङ्केतकालप्रवृत्तस श्रुतग्रन्थसम्बन्धिनो वा शब्दस्य व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु सामिलापमेव, भुतानुसार्येव च, सङ्केतकालप्रवृत्तस्य भुतप्रन्थसम्बन्धिनो वा शब्दरूपस्य भुतस्य । व्यवहारकालेऽवश्यमनुसरणाविति स्थितम् ॥” विशेषा• टी• गा० १००। [ पृ०२४ पं०९]. 'अत एव धारणात्वेन' - "मतिपुव्वं सुत्त" इति वचनादागमे मतिः पूर्व यस्य तद् मतिपूर्व श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका इति अनयोरयं विशेषः । यदि करवं मतिभुतयोर्भवेत् तदेवंभूतो नियमेन पूर्वपश्चाद्भावो घटतत्स्वरूपयोरिव न स्यात् । अस्ति चायम् । ततो भेद इति भावः । किमिति मतिपूर्वमेव श्रुतमुक्तम् इत्याह-यस्मात् । कारणात् भुतस्य मतिः पूर्व प्रथममेवोत्पद्यते । कुतः १ इत्याह - 'पूरणेत्यादि' पृधातुः पालनपूरणयोरर्थयोः पठ्यते, तस्य च पिपर्ति इति पूर्वम् इति निपात्यते । ततश्च श्रुतस्य पूरणात् पालनाच मतिर्यस्मात् पूर्वमेव युज्यते तस्मात् मतिपूर्वमेव श्रुतमुक्तम् । पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्या, कार्यात् पूर्वमेव कारणस्य भावात् “सम्यग्ज्ञानपूर्विका सर्वपुरुषार्यसिद्धिः" [न्यायवि० १.१ ] इत्यादौ तथा दर्शनाच । ततश्च मतिपूर्व श्रुतमिति कोऽर्थः ।. श्रुतज्ञानं कार्य मतिस्तु तत्कारणम् ।” विशेषा० टी० गा० १०५। ___"श्रुतज्ञानस्यैते पूरणादयोऽर्था विशिष्टाभ्यूहधारणादीनन्तरेण कर्तुं न शक्यन्ते अभ्यूहा. दयश्च मतिज्ञानमेव इति सर्वथा श्रुतस्य मतिरेव कारणं, श्रुतं तु कार्यम् ।” विशेषा. टी. गा० १०६ । "परस्तु मतेरपि श्रुतपूर्वतापादनेनाविशेषमुद्भावयन्नाह - परस्मात् शब्दं श्रुत्वा तविषया. या मतिरुत्पद्यते सा श्रुतपूर्वा-श्रुतकारणैव । तथा च सति 'न मई सुयपुधियत्ति' यदुक्तं प्राक तयुक्तं प्रामोति । अनोत्तरमाह-परस्माच्छब्दमाकर्ण्य या मतिरुत्पद्यते सा, शब्दस्य द्रव्यश्रुतमात्रत्वात् द्रव्यभुतप्रभवा, न भाववतकारणा । एतत् तु न केनापि वार्यते । किन्तु एतदेव वयं मो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350