Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 298
________________ पृ०२१. पं० ३.] टिप्पणानि । बौदयिकभावः मतिभुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां तु सदैव देशघाविनामेव रससर्वकानामुदयः न सर्वघातिनां तेन सर्वदापि तासामौदयिकक्षायोपशमिको भावौ संमिश्री प्राप्येते, न केवल औदायिकः ।" पश्च० म० प्र० गा• ३० पृ. १३३। . [ पृ०२१ पं०६] 'विपाकोदयेऽपि' - "आह-क्षायोपशमिको भावः कर्मणामुदये सति भवति अनुदये वा । न तावदुदये विरोधात् । तथाहि-क्षायोपशमिको भाव उद-. यावलिकाप्रविष्टस्यांशस्य क्षये सति अनुदितस्य चोपशमे विपाकोदयविष्कम्भलक्षणे प्रादुभवति नान्यथा ततो यधुदयः कथं क्षयोपशमा, क्षयोपशमश्चेत् कथमुदयः इति । अथा. नुदय इति पक्षः तथा सति किं तेन क्षायोपशमिकेन भावेन १, उदयाभावादेव विवक्षितफलसिद्धेः। तथाहि मतिज्ञानादीनि मतिज्ञानावरणाधुदयाभावादेव सेत्स्यन्ति किं क्षायोपशमिकभावपरिकल्पनेन ? । उच्यते । उदये क्षायोपशमिको भावः । न च तत्र विरोधः । यत । आह-इह ज्ञानावरणीयादीनि कर्माणि आसर्वक्षयात् ध्रुवोदयानि, ततस्तेषामुदये एव क्षयोपशमो घटते नानुदये, उदयाभावे तेषामेवासम्भवात् । तत उदय एवाविरुद्धः क्षायोपशमिको भावः । यदपि विरोधोद्भावनं कृतं 'यादयः कथं क्षयोपशमः' इत्यादि तदप्ययुक्तम् । देशपातिस्पर्धकानामुदयेऽपि कतिपयदेशघातिस्पर्धकाऽपेक्षया यथोक्तक्षयोपशमाविरोधात्।स च क्षयोपशमोऽनेकभेदः तत्तद्रव्यक्षेत्रकालादिसामप्रीतो वैचित्र्यसम्भवादनेकप्रकारः । उदय । एवं चाविरुद्ध एष क्षायोपशमिको भावो यदि भवति तर्हि न सर्वप्रकृतीनां किन्तु त्रयाणामेव कर्मणां ज्ञानावरणदर्शनावरणान्तरायाणाम् । मोहनीयस्य तर्हि का वार्ता ? इति चेत् । अव भाह-मोहनीयस्य प्रदेशोदये क्षायोपशमिको भावोऽविरुद्धः न विपाकोदये । यतोऽनन्तानुबन्ध्याविप्रकृतयः सर्वघातिन्यः, सर्वघातिनीनां च रसस्पर्धकानि सर्वाण्यपि सर्वघातीन्येव न देशघातीनि । सर्वघातीनि च रसस्पर्धकानि स्वघात्यं गुणं सर्वात्मना नन्ति न देशता, ततस्तेषां विपाकोदये न क्षयोपशमसंभव:, किन्तु प्रदेशोदये । ननु प्रदेशोदयेऽपि कथं क्षायोपशमिकभावसम्भवः १, सर्वघातिरसस्पर्द्धकप्रदेशानां सर्वस्खघात्यगुणघातनस्वभावत्वात् । तदयुक्तम् , षस्तुतत्त्वापरिज्ञानात् , ते हि सर्वघातिरसस्पर्द्धकप्रदेशास्तथाविधाध्यवसायविशेषतो मनाग्मन्दानुभावीकृत्य विरलविरलतया वेद्यमानदेशघातिरसस्पर्द्धकेष्वन्तःप्रवेशिता न यथावस्थितमात्ममाहात्म्यं प्रकटयितुं समर्थाः, ततो न ते क्षयोपशमहन्तारः, इति न विरुण्यते । प्रदेशोदये क्षायोपशमिको भावः । 'अणेगभेदो' ति इत्यत्रेतिशब्दस्याधिकस्याधिकार्थसंसूच-' नान्मिथ्यात्वाथद्वादशकषायरहितानां शेषमोहनीयप्रकृतीनां प्रदेशोदये विपाकोदये वा क्षयोपशमोऽविरुद्ध इति द्रष्टव्यम्, तासां देशघातित्वात् । तत्राप्ययं विशेषः-ताः शेषा मोहनीयप्रकृतयोऽभुवोदया:, ततो विपाकोदयाभावे क्षायोपशमिके भावे विजृम्भमाणे प्रदेशोदयसम्भवेऽपि न ता मनागपि देशविघातिन्यो भवन्ति । विपाकोदये तु प्रवर्त्तमाने क्षायोपमिकभावे मनाग्मालिन्यमात्रकारित्वादेशघातिन्यो भवन्ति ।" पञ्च० म०प्र० गा) २८ पृ. १३९ । [ पृ०२३ पं० ६.] कर्मप्रकृति' -पृ. १३-१४ । नन्दी• म० पृ. ७७-८० । [ १०२४ पं०३'श्रुतं तु' "इंदियमणोनिमित्तं जं विण्णाणं सुयाणुसारेण । नियपत्थुचिसमत्थं तं भावसुर्य मई सेसं ॥" विशेषा• गा० १०० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350