Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh
View full book text
________________
५८
ज्ञानबिन्दुप्रकरणस्य [०७ पं०२. इति चेल । यज्ञदत्तोऽयम् अन्तःकरणलयहेत्वदृष्टवान् सुषुप्तौ लीयमानान्तःकरणत्वादित्यनुमातरि देवदत्ते स्थितेनानेन ज्ञानेनानुमितिकरणभूते सुषुप्तयज्ञदत्तान्तःकरणे स्थितस्याज्ञानस्यानिवृत्तः । ज्ञातृसंबन्धिन्यन्तःकरणे स्थितस्य निवृत्तिरत्येवेति चेद्, न । अज्ञानस्यान्त:करणगतत्वे मानाभावात् । विमतं करणगतं भ्रान्तिनिमित्तदोषत्वात् काचादिकवदिति चेत् ' तर्हि चक्षुरादिषु तत्प्रसज्येत । सादित्वात् तेषामनाद्यज्ञानाश्रयत्वानुपपत्तिरिति चेत्, अन्त:करणेऽपि तुल्यम् अतो नान्तःकरणाश्रयमज्ञानं किं त्वात्माश्रयम् । तदुक्तमाक्षेपपूर्वक विश्वरूपाचार्य:--
"नन्वविद्या स्वयं ज्योतिरात्मानं ढौकते कथम् । कूटस्थमद्वितीयं च सहस्रांशुं यथा तमः॥ प्रसिद्धत्वादविद्यायाः साऽपह्नोतुं न शक्यते ।
अनात्मनो न सा युक्ता विना त्वात्मा तया न हि ॥" इति । तस्याश्वाविद्याया जीवब्रह्मविभागहेतुत्वं पुराणे अभिहितम् ।
"विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥" इति ।"
विव० प्र० पृ. ४८.४९ मधुसूदनसरस्वती तु अद्वैतसिद्धौ उक्तं पक्षद्वयमपि सविस्तरं समर्थयते । तद्यथा"अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव । तदुक्तम् -
"आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।
पूर्वसिद्भुतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥” इति । . दर्पणस्य मुखमात्रसंबन्धेपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपातित्वात् । ननु कथं चैतन्यमज्ञानाश्रयः तस्य प्रकाशस्वरूपत्वात् तयोश्च तमःप्रकाशवद्विरुद्धस्वभावत्वादिति चेन्न, अज्ञानविरोधि ज्ञानं हि न
चैतन्यमात्रम् , किन्तु वृत्तिप्रतिबिम्बितम् तश्च नाविद्याश्रयः यच्चाविद्याश्रयः तच नाज्ञानविरोधि । न च तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाशत्वापत्तिः वृत्त्यव७ च्छेदेन तस्या एवाज्ञानविरोधित्वात् स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन
खभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन तदाहकत्वात् ।
ननु अहमज्ञ इति धर्मिग्राहकेण साक्षिणा अहङ्काराश्रितत्वेनाज्ञानस्य ग्रहणात् बाधा, न च स्थौल्याश्रयदेहेक्याध्यासादहं स्थूल इतिवदज्ञानाश्रयचिदैक्याध्यासात् दग्धृत्वायसोरेकानि• संबन्धादयो दहतीतिवदज्ञानाहङ्कारयोरेकचिदैक्याध्यासाद्वा अहमज्ञ इति धी|न्तेति वाच्यम् , चितोऽज्ञानाश्रयत्वासिद्ध्या अन्योन्याश्रयादिति चेन, अहङ्कारस्याविद्याधीनत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे अहमज्ञ इति प्रतीतेरैक्याध्यासनिबन्धनत्वेनाबाधकत्वात् । न च अविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु अविद्यायामनुपपत्तेरलकारत्वाविति वाच्यम् । अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेनाकल्पितत्वायोगात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350