Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 290
________________ पृ०७.५०२.] टिप्पणानि । चिन्मात्राश्रितत्वं विना तद्गोचरचरमवृत्त्यनिवर्त्यत्वापातात् , स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयस्वायोगात् । नचाविद्यायामनुपपत्तिरलङ्कारः, अनुपपत्तिमात्रं नालङ्कारः, किन्तु सत्त्वादिप्रापकयुक्तापनुपपत्तिः, अन्यथा वादिवचसोऽनवकाशापत्तेः ।” अद्वैत• पृ० ५७७ । __"वाचस्पतिमित्रैस्तु जीवाश्रितैवाऽविद्या निगद्यते । ननु-जीवाश्रिताविद्या तत्प्रतिबिम्बितचैतन्यं वा तदवच्छिन्नचैतन्यं वा, तत्कल्पितभेदं वा जीवः, तथा चान्योन्याश्रय इति चेन्न, । किमयमन्योन्याश्रय उत्पत्तौ शप्तौ स्थितौ वा । नाथः, अनादित्वादुभयोः। न द्वितीयः, अज्ञानस्य चिद्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः, स किं परस्पराश्रितत्वेन वा परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न, उभयस्याप्यसिद्धेः अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेपि चिति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनताक्षतिः । समानकालीनयोरपि अवच्छेद्यावच्छेदकभावमात्रेण तदुपपत्तेः घटतवच्छिन्नाकाश-" योरिव प्रमाणप्रमेययोरिव च । तदुक्तम् - "खेनैव कल्पिते देशे व्योग्नि यद्वत्घटादिकम् । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः ॥" इति । एतेन यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धकत्वेनान्योन्यापेक्षताया अदोषत्वं तदा चैत्रमैत्रादेरन्योन्यारोहणाद्यापत्तिरिति निरस्तम् , परस्परमाश्रयाश्रयिभावस्यानङ्गीकारात् । न चेश्वरजीव-॥ योरीश्वरजीवकल्पितत्वे आत्माश्रयः जीवेशकल्पितत्वे चान्योन्याश्रयः, न च शुद्धा चित् कल्पिका तस्या अज्ञानाभावादिति वाच्यम् ; जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वे. नैतद्विकल्पानवकाशात् तस्माज्जीवाश्रयत्वेऽप्यदोषः।" अद्वैत० पृ० ५८५।। सर्वज्ञात्ममुनिसमर्थितोऽज्ञानस्य ब्रह्माश्रयत्वपक्षः तदीयगुरुसुरेश्वराचार्यप्रणीतायां नष्कHसिद्धौ स्फुटं दृश्यते - "ऐकात्म्याप्रतिपत्तिर्या खात्मानुभवसंश्रया । साऽविद्या संसृतेर्बीजं तमाशो मुक्तिरात्मनः ॥" नैष्क० १.७ । "एकोऽद्वितीयः आत्मा एकात्मा तस्य भावः ऐकात्म्यं तद्विषयाऽप्रतिपत्तिरेकात्म्याप्रतिपत्तिरित्यविद्याविषयो दर्शिता, सांप्रतमाश्रयोपि स एवेत्याह - स्वात्मेति । स्वश्चासौ आत्मा चेति स्वात्मा । स्वशब्देन आरोपितात्मभावान् अहंकारादीन् व्यावर्तयति । स्वात्मा चासाबनुभवश्चेति स्वात्मानुभवः स एव आश्रयो यस्याः सा तथोक्ता।" नैष्क० टी० १.. "तचाज्ञानं स्वात्ममात्रनिमित्तं न संभवतीति कस्यचित् कस्मिंश्चिद्विषये भवतीत्यभ्युपरा. न्तव्यम् । इह च पदार्थद्वयं निर्धारितम्-आत्मा अनात्मा च । तत्रानात्मनस्तावत् नामानेनाभिसंबन्धः । तस्य हि स्वरूपमेवाऽज्ञानं । न हि स्वतोऽज्ञानस्याऽज्ञानं घटते । संभवदपि अज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमसानं स्यात् । अनारमनश्चाज्ञानप्रसूतत्वात् । न हि पूर्वसिद्धं सत् ततो लब्धात्मलाभल सेत्स्थत आश्रयस्याश्रयि संभवति । तदनपेक्षस्य च तस्य निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो नाऽनात्मविषयमज्ञानं संभवतीति ग्राह्यम् । एवं तावन्नाऽनात्मनोऽज्ञानित्वं नापि तद्विषयमझानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । “सोई Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350