Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
विस्तरार्थस्त्वयम् – भयसप्तकं इहलोक १ परलोका २ ऽऽदाना ३ ऽऽकस्मिका ४ ऽऽजीविका ५ मरणा ६ ऽश्लोक ७ भयलक्षणम्। यदाह -
'इहपरलोगा २ दाण ३ म-कम्हा ४ आजीव ५ मरण ६ मसिलोइ ७ त्ति।' देवेभ्यो देवस्य नरेभ्यो नरस्य तिर्यग्भ्यस्तिरश्चः नारकेभ्यो नारकस्य यद्भयं तदिहलोकभयम् १। नरतिर्यग्भ्यां देवस्य, देवतिर्यग्भ्यां नरस्य, देवनराभ्यां तिरश्चः, देवान्नारकस्य च यद्भयं तत्परलोकभयम् २। मा अयं इदं मदीयं वस्तु बलादादास्यतीत्यादानभयम् ३। निर्हेतुकं केवलस्वमनोभ्रान्तिजनितं यद्भयं तदाकस्मिकभयम् ४। आजीविका-जीवनवृत्तिः, तदुपायचिन्ताजनितमाजीविकाभयम् ५। मरणभयं प्रतीतम् ६। अश्लोकोऽपयशः, तद्भयमश्लोकभयम् ७। इत्येवंविधभयसप्तकरहितः।
तथा पिण्डैषणासप्तकं संसृष्टा १ असंसृष्टा २ उद्धृता ३ अल्पलेपा ४ अवगृहीता ५ प्रगृहीता ६ उज्झितधर्मिका ७ लक्षणम्। यदाह -
‘संसट्ठ १ मसंसट्ठा २, उद्धिय ३ तह अप्पलेविया ४ चेव। उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा ७ य सत्तमिया॥१॥'
(सम्बोधप्रकरणम् ७८४) तत्र संसृष्टा दध्यादिका १। असंसृष्टा मोदकादिका २। कस्यापि कृते परिवेषणायोत्पाटिता उद्गृहीता ३। वल्लचणकादिका अल्पलेपा ४। पिठराद्भाजनान्तरे क्षिप्ता अवगृहीता ५। भोक्तुं परिवेषिता प्रगृहीता ६। त्यागार्हा उज्झितधर्मा ७। इत्येताभिः पिण्डैषणाभिः संयुक्तः। ___पानैषणाऽप्येवंविधा एव। नवरं संसृष्टा तन्दुलोदकादिका, असंसृष्टा विकटोदकादिका, अल्पलेपा सौवीरादिका, इत्येताभिरपि युक्तः।
सुखसप्तकं यथा-सन्तोष १ करणजय २ प्रसन्नचित्तता ३ दयालुता ४ सत्य ५ शौच ६ दुर्जनपरिहार ७ लक्षणम्। यदाह -
'संतोसो १ करणजओ २, पसन्नचित्तं ३ दयालुभावो ४ य। सच्चं ५ सोयं ६ दुजण-परिहारो ७ इय सुहा सत्त॥१॥'
(पव्वजाविहाणकुलयं ३३) ...१८४...
भयसप्तकं, पिण्डैषणासप्तकं, पानैषणासप्तकं, सुखसप्तकम्