Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
सीए२२, न उण्हे२३, न नि २४, न लुक्खे२५, न संगे२६, न रुहे२७, न काए२८, न इत्थी२९, न पुरिसे३०, न नपुंसे३१।' (आचाराङ्गसूत्रम्)
अहवा कम्मे - 'नवदरिसणंमि चत्ता-रि आउए पंच आइमे अंते। सेसे दो दो भेया, खीणभिलावेण इगतीसं॥१॥'(प्रवचनसारोद्धारः १५९३) ज्ञानपञ्चकं आभिनिबोधिकादिकम्। यदाह - 'आभिणिबोहियनाणं, सुअनाणं चेव ओहिनाणं च।
तह मणपज्जवनाणं, केवलनाणं च पंचमयं॥१॥' (पुष्पमाला १७)
एतद्विवरणं यथा-अर्थाभिमुखो नियतो बोधोऽभिनिबोधः, अभिनिबोध एव आभिनिबोधिकम्, इकणि, तच्च तत् ज्ञानं चेति समासः। उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं अवग्रहाद्यष्टाविंशतिभेदभिन्नं आत्मप्रकाशकं आभिनिबोधिकं ज्ञानं, मतिज्ञानमित्यपरपर्यायम्। तथा श्रूयते इति श्रुतं शब्दात्मकं, श्रुतं च तज् ज्ञानं चेति श्रुतज्ञानम्। उत्पन्नानुत्पन्नाविनष्टार्थग्राहकं त्रिकालविषयं अङ्गानङ्गादिभेदभिन्नं इति स्वपरप्रकाशकं श्रुतज्ञानमिति। यत उक्तम् -
'सुअनाणं महिड्डियं, केवलं तयणंतरं ।
अप्पणो य परेसिं च, जम्हा तं पवियाहियं॥१॥' 'चः' समुच्चये, ‘एवः' अवधारणे। अवधीयतेऽनेनेत्यवधिः, स च ज्ञानं चेति अवधिज्ञानं, इदमप्युत्पन्नानुत्पन्नविनष्टार्थग्राहकं त्रिकालविषयं अनुगाम्यादिषड्भेदभिन्नं अवधिज्ञानम्। तथा परिः सर्वतो भावे अवनं अवः गमनं वेदनं वा, ततः पर्यवः, मनसि मनसो वा पर्यवः, स एव ज्ञानं मनःपर्यवज्ञानम्। मनुष्यक्षेत्रवर्तिसज्ञिपञ्चेन्द्रियद्रव्यमनोगतभावविज्ञानविषयं, तच्च ऋद्धिप्राप्ताप्रमत्तसंयतसम्यग्दृष्टिपर्याप्तसङ्ख्यातायुष्ककर्मभूमिकगर्भव्युत्क्रान्तिकमनुष्याणामेव संभवि, नैतद्विपरीतानामिति, ऋजुविपुलमतिभेदभिन्नमिति। केवलमसहायं मत्यादिज्ञाननिरपेक्षं, केवलं च तज् ज्ञानं चेति केवलज्ञानं सकललोकालोकप्रकाशकं, तच्च पञ्चमं पञ्चमसङ्ख्यात्मकम्। इति गाथार्थः॥३३॥ १. ब-पुस्तके-“नविन-" इत्यपि। २. तत् प्रकाशकतया प्रत्याख्यातम्। ३. पविगासगं।
ज्ञानपञ्चकम्
...२३३...
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258