Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
सम्पत् ८, इत्येता अष्टौ गणिसम्पदः। तत्र चाचारसम्पच्चतुर्धा-चरणसप्ततियुक्तता १, निर्मदता २, अनियतविहारिता ३, अचञ्चलेन्द्रियत्वं ४ चेति। तथा श्रुतसम्पच्चतुर्धा-युगप्रधानागमज्ञता १, परिचितसूत्रार्थता २, उत्सर्गादिवेदित्वम् ३, उदात्तादिपटुवर्णोच्चारित्वम् ४। तथा शरीरसम्पच्चतुर्धा - समचतुरस्रसंस्थानता १, सम्पूर्णाङ्गोपाङ्गता २, अविकलेन्द्रियत्वम् ३, तपःपरीषहादेः सहिष्णुता ४ चेति। तथा वचनसम्पच्चतुर्धा-अनाहतप्रतिभात्वम् १, मधुरवाक्यता २, निर्विकारवचनता ३, स्फुटवचनता ४ चेति। तथा वाचनासम्पच्चतुर्धा - योग्यायोग्यपात्रज्ञता १, पूर्वस्मिन् सूत्रार्थजाते परिणतेऽपरसूत्रार्थदानम् २, सूत्रं प्रति निर्यापणमुत्साहनम् ३, अर्थं प्रति निर्वाहित्वं ४ चेति। तथा मतिसम्पच्चतुर्धाअवग्रहोऽव्यक्तग्रहणम् १, ईहा विमर्शः २, अपायो निश्चयः ३, धारणा अविस्मारणं ४ चेति। प्रयोगमतिर्वादबुद्धिः, साऽपि चतुर्धास्वशक्तिपरिज्ञानम् १, पुरुषपरिज्ञानम् २, स्वपरानुकूलक्षेत्रपरिज्ञानम् ३, स्वपरानुकूलराजादिवस्तुविज्ञानं ४ चेति। सङ्ग्रहपरिज्ञासम्पच्चतुर्धा-गणविहारयोग्यक्षेत्रादिपरीक्षणम्१, भद्रकादीनामुपदेशतो गणचिन्तादौ स्थिरीकरणम्२, स्वाध्यायाङ्गानां पुस्तकादीनां सङ्गच्छनम् ३, तपोऽनुष्ठानादौ शैक्षकादीनां यद्यथायोग्यकृत्यज्ञता४ चेति। एवं गणिसम्पद्भेदा द्वात्रिंशदिति। __ तथाऽऽचारश्रुतविक्षेपदोषप्रतिघातभेदभिन्नत्वाद् विनयोऽपि चतुर्धा। तत्राचारविनयः स्वस्य परस्य वा संयमतपोगणप्रतिमाविहारादिसामाचारीसाधनलक्षणः १, श्रुतविनयः सूत्रार्थोभयभावरहस्यानां दानग्रहणप्रेरणोपबृंहणादिभिः२, विक्षेपविनयो मिथ्यात्वतो गार्हस्थ्यतः प्रमादाद्वा विक्षिप्य तदुत्तरभावेषु स्थापनमिति३, तद्दोषप्रतिघातविनयो विषयकषायादिदोषप्रतिघातनेनेति ४। ___एतदर्थसूचिकाः पूर्वर्षिप्रणीतगाथाश्चात्र – १. ब-पुस्तके-“वर्णोच्चारणम्" इत्यपि। २. ब पुस्तके - “पूर्वसूत्रार्थजाते' इत्यपि। ३. ब पुस्तके-“निर्वाहकत्वं' इत्यपि। ४. नात्र चिन्तार्थता। ५. ब पुस्तके - “परपुरुषपरिज्ञानम्" इत्यपि॥ ६. ड पुस्तके - “राज्यादि” इत्यपि। ७. ब पुस्तके - “गणसहिताहार” इत्यपि॥ ८. “समो गच्छादनटि"। ९. ब पुस्तके “तत्र चाचारः”॥
...२४०...
चतुर्धा विनयः