Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 234
________________ छउमत्थमरण ११ केवलि १२, विहाणसं १३ गिद्धपिट्ठमरणं १४ च। मरणं भत्तपरिण्णा १५, इंगिणि १६ पाओवगमणं १७ च॥२॥' (प्रवचनसारोद्धारः १००६, १००७) एतद्विवरणश्लोकाश्चात्र - 'मरणं सप्तदशधाऽऽवीचिमरणमादिमम्। जीवानां प्रतिसमया-युःकर्मदलिकत्रुटिः॥१॥ यान्यायुःकर्मदलिका-न्यनुभूय मृतः सकृत्। मर्ताऽनुभूय तान्येवावधिमृत्युरयं स्मृतः॥२॥ नानुभूय च मर्ता च, तदन्तिकमितीरितम् ३। संयमयोगसन्नस्य, बलाकामरणं भवेत् ४॥३॥ इन्द्रियार्थवशार्तस्य, वशार्तमरणं भवेत् ५। सशल्यमरणं प्राय-श्चित्तहीनस्य देहिनः ६॥४॥ मुक्त्वासङ्ख्यायुषस्तिर्यग्-नरान् देवांश्च नारकान्। केषांचिदपि शेषाणां, स्यान्मृतिस्तद्भवाभिधा ७॥५॥ बालाख्यं स्यादविरते ८, विरते विरताभिधम् ९। मरणं मिश्रमाख्यातं, विरताविरते पुनः १०॥६॥ चतुर्ज्ञानवतां याव-च्छद्मस्थं मरणं स्मृतम् ११। स्यात् केवलिमरणं तु, केवलज्ञानशालिनाम् १२॥७॥ गृध्रादिभक्षणाद्गार्द्धपृष्ठं मरणमुच्यते १३। उद्बन्धनादिना मृत्यु-र्भवेद्वैहानसाभिधम् १४॥८॥ मृत्युभक्तपरिज्ञाख्यः, सर्वाहारविवर्जनात्। मुक्तनिःशेषसङ्गस्य, जन्तोः सप्रतिकर्मणः १५॥९॥ इङ्गिन्या(ता)ख्यं तदेवान्य-त्प्रतिकर्मविवर्जितम् १६। पादपोपगमाख्यं तु, निश्चलं छिन्नवृक्षवत् १७॥१०॥ मरणेष्वेषु सर्वेषु, त्रयमन्तिममुत्तमम्। ज्वलनाधुपघातैस्तन्न कर्तव्यं विवेकिना १८॥११॥ १. ड-पुस्तके-“एतद्विवरणं चात्र' इत्यपि॥ २. ड-पुस्तके- "-वेद्वेषानसाभिधम्" इत्यपि। सप्तदशभेदं मरणम् ...२१९...

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258